________________
न काचिदप्यवस्थाऽस्ति भवेऽनादौ किलात्मनः । भाव्यमानत्ववैकल्यं यत्रैतत् समपद्यत ॥३७॥
कारणं भाव्यमानत्वं संस्कारास्तस्य निर्मितिः । दृढयन्ति तथाप्यत्र संस्कारा भाव्यमानताम् ॥३८॥
यदि कश्चिच्छुभोऽपि स्याद् भाव्यमानत्वगोचरः । संस्कारोऽपि तदा तस्य शुभ एव प्रवर्तते ॥३९॥
शुभेन भाव्यमानत्वं शुभं संस्कारसर्जनम् । एतदद्वयं हि दुष्टानां कर्मणामेकवारणम् ॥४०॥
यथाप्रवृत्तकरणात् कर्ममांद्ये प्रवर्तिते । क्रमोऽयं संभवत्येव जीवस्य योग्यतावशाद् ॥४१॥
उत्तमानां निमित्तानां लाभाद्धि भाव्यमानता । उत्तमत्वं दधात्येव पात्रं क्षीरभृतं यथा ॥४२॥
श्रीसंवेगरतिः