________________
प्रशस्तिः
निःस्पृहा मे प्रसीदन्तु तातपादा मुनीश्वराः । तेषामेवाभिधानेन ग्रन्थे नव्ये विनिर्मिते ॥१॥
स्पष्टमुच्चारकः सम्यक्-प्रेरको मूलगामुकः । श्रीसंवेगरतिग्रन्थो मत्तातेनैव साम्यवान् ॥२॥
त्यक्त्वा नि:सारसंसारं नैको दीक्षां समाश्रयत् । मदबन्धुं मां च दीक्षाया मार्गेऽप्यस्थापयत् महान् ॥३॥
रामचन्द्रप्रभोः शिष्य-पदं प्रादात् स्वपुत्रयोः । न स्वकीयस्य शिष्यत्वं ददौ निर्ग्रन्थशेखरः ॥४॥
अभ्यास: कारितः सर्वः सेवा नानेन स्वीकृता । मेघो हि पृथिवीं दत्ते नादत्तेऽस्यास्तु किञ्चन ॥५॥
वैराग्यरतिनामाऽस्ति ग्रन्थः श्रीमद्यशःकृतिः । प्रशमरतिनामाऽपि ग्रन्थो वाचकनिर्मितः ॥६॥
१२८
श्रीसंवेगरतिः