________________
स्पर्शादिगोचरैः पंच-प्रकारैर्देहसंगतैः । सुखं स्यादनुकूलैश्च प्रतिकूलैश्च वेदना ॥३१॥
वस्तुतो विषया पंच नात्मानमुपकारिणः । देहानामुपकारित्वाद् आत्मा संवेत्ति तान् तथा ॥३२॥
आश्चर्यं परमं ह्येतद् जडं कर्म जडा तनुः । आत्मानमत्र बध्नीतस्तस्य चेतनयैव हा ! ॥३३॥
कर्मणा वासिता देह-संचार्या जीवचेतना । अपूर्णानुभवोद्भ्रान्ता सुखे दुःखे च भ्राम्यति ॥३४॥
कर्मणा रहिता देह-विमुक्ता जीवचेतना । संपूर्णानुभवोन्मत्ता सुखैर्दुःखैर्न बाध्यते ॥३५॥
अपेक्षायामहंकारे वर्तमानाऽऽत्मचेतना । कषायोदयनिर्बद्धा सुखे दुःखे प्रवर्तते ॥३६॥
११४
श्रीसंवेगरतिः