________________
१००
अष्टादशसहस्त्रेषु शीलांगेषु समर्पिताः । श्रमणा दर्शनादेव पापानामपहारकाः ॥६७॥
तेषामाज्ञैकनिष्ठानामनघाचरणावताम् । निःस्पृहाणां कृपार्द्राणां शृणुयाद् वाचमुत्तमाम् ॥६८॥
मुनीनां सिद्धधर्माणां संगमः सेवना स्तवः । अपूर्वलाभकारित्वादवन्ध्यं मुक्तिकारणम् ॥६७॥
वसन्ति हृदये येषां साधवो धर्मकर्मठाः । तेषामज्ञानजाद् दुःखा-न्न क्वचिद् वर्तते भयम् ॥७०॥
प्रेरणाद् बोधदानाच्च वासकत्वाच्छुभैर्गुणैः । संशयच्छेदकत्वाच्च साधवस्स्युस्सहायकाः ॥ ७१ ॥
साधूनां विनये निष्ठः साधूनात्मनिवेदकः । साधुसम्बोधितो धन्यस्साधुभिः संस्कृतो भवेत् ॥७२॥
श्रीसंवेगरतिः