________________
सौन्दर्यं भगवन्मूर्तेर्भावपूर्णो निभालयन् । कृतकृत्योऽन्तरानन्द-निमग्नः संस्तवेज्जिनम् ॥६१॥
निधायोत्तमसामग्री भक्तिभागर्चनाविधौ । याचेताऽध्यात्मलाभेन परमात्मदशां निजाम् ॥१२॥
कल्याणकैः पवित्राणि तीर्थाण्यन्यानि चादरात् । विहरन् कुरुते धन्यो रजसोऽल्पत्वमात्मनि ॥६३॥
सम्मेतशिखरे चम्पा-पुर्यां काश्यां च रैवते । अयोध्यायामपापायां यात्राभिर्भावयेन् मनः ॥६४॥
शत्रुजये च तारंगे पत्तने चार्बुदाचले । शंखेश्वरे च प्रह्लाद-पुरे यात्रा गुणावहा ॥६५॥
अन्यान्यन्यानि तीर्थाणि धराधाराणि संस्पृशन् । तेषां पावित्र्यसांगत्याद् नूनं निर्मलयेद् निजम् ॥६६॥
श्रीसंवेगरतिः