________________
८४
आत्माऽस्ति सन्ति कर्माणि कर्मबद्धोऽस्मि चाप्यहम् । कर्मणां फलभागस्मि कर्मनाशेऽस्मि च क्षमः ॥१९॥
तस्य हेतुश्च धर्मोऽस्ति कर्ममोक्षोऽस्ति मे ततः । इत्येवं बोधमापन्नः समर्थः कर्मनिग्रहे ॥ २० ॥ युग्मम्
आगमा वृत्तयस्तेषां प्रामुख्याद् बोधदायकाः । तदर्हाः श्रमणा एव व्रतानां पूर्णसाधकाः ॥२१॥
एतैरभ्यस्तसच्छास्त्रैः परमार्थविशारदैः । निर्मिता बहवो ग्रन्थाः स्वाध्यायेषूपयोगिनः ॥२२॥
संवेगरंगशालायाः शक्तिः केनोपवर्ण्यते । प्रगाढभवरागस्य समुच्छेदविधायिनी ॥२३॥
समरादित्यवार्ताया रसो येनान्वभूयत । क्लेशावेशवशित्वेन सर्वथाऽसौ व्यमुच्यत ॥२४॥
श्रीसंवेगरतिः