________________
८२
स्वाध्याये च सदाचारे सत्संगे च समर्पितः । त्रिविधश्चेतसो यत्नो भावशुद्धि प्रवर्तयेत् ॥१३॥
सूत्रमर्थं च तात्पर्यं पठन्नेव नवं नवम् । स तीर्थस्पर्शनाभोगी प्राप्नोति विमलात्मताम् ॥१४॥
कंठस्थीकरणानन्दस्समुद्घोषसमन्वितः । सूत्रेष्वेकाग्रतावाही जिह्वापावित्र्यकृन्मतः ॥१५॥
अर्थेष्वर्हन्निरुक्तेषु चित्तधारणया युतः । अभ्यासः परमाह्लादी श्रद्धाकारीति शस्यते ॥१६॥
बोधस्तात्पर्यविज्ञाना-दप्रतिमोऽभिजायते । मनोयोगस्य पद्धत्यां प्रतिस्त्रोतोगतिप्रदः ॥१७॥
आत्मा षट्कारकत्वेन चिन्तयन्नात्मनो दशाम् । मिथ्यात्वमोहनीयानां मन्दतां नेतुमस्त्यलम् ॥१८॥
श्रीसंवेगरतिः