________________
मङ्गलवादसंग्रह
नमामि परमानन्दमानन्दाय पुनः पुनः । बाधादिदोषान्निस्तीर्णो यस्यानुस्मरणादहम् ।।१।। कार्यत्वमीश्वरे लिङ्गं हेत्वाभासविवर्जितम् ।
उक्तग्रन्थप्रबन्धेन साधितं बोध्यतेऽधुना ।।२।। इयता प्रबन्धन स्वार्थपरार्थभेदभिन्नस्याभासव्यतिरिक्तस्यानुमानस्यनिरूपणंसिद्धमितीदानींस्तद्विषयं तत्प्रसङ्गागतमीश्वरं निरूपयितुमुपक्रमतेएवमिति । तस्येति । प्रतिज्ञाकाले स्वस्वपदेन तावतामभिधातुमशक्यत्वादित्यर्थः । मिलितमिति । एकपक्षतावच्छेदकावच्छिन्नमित्यर्थः । परस्परेति । न चानविधेयादिनाऽदौ वादिनि स्वस्वपक्षं पृष्टे, तेन च तस्मिन्नुक्ते, अनुविधेयादौ सन्दिहाने, तन्नियोगात् प्रयोगप्रवृत्तौ क्वान्योन्याश्रय इति वाच्यम् । तेन हि तद्वक्तव्यं, केन रूपेण ? न तावत्प्रातिस्विकतत्तद्रूपेण, तदा तेन रूपेण संशय प्राप्तिः प्रसङ्गात् । न सामान्य रूपेण, तस्यानिर्वचनात् । तादृशसंशयमादायनिर्वचनेऽन्योन्याश्रयात् । केचित्तु एतदस्वरसात् घटेपीति प्राहुः । सम्भवादिति । विशेषादशेनदशायामित्यर्थः । तथा चांशसिद्धसाधनमित्यथैः । प्रत्येकं संशय इति । विचाराङ्ग साध्य संशयविषयतावच्छेदकरूपेण पक्षे साध्य साधनतत्संशयनिवर्तकत्वेन प्राकृतार्थ सम्बद्धत्वात्, रूपान्तरेण तत्र तत्साधनस्य विचाराङ्ग संशयानिवर्त्तकत्वेन प्रकृतार्यासम्बद्धत्वादिति भावः । ननु तदादाय समूहालम्बनत्वेन पदाः स्यादत आह-असिद्धेश्येति-अप्रसिद्धरित्यन्तः । अप्रसिद्धिमवविवृणोति-अदृष्टेति । कर्तृत्वादिति । तद्धे तुकृतिमत्वादित्यर्थः । वाद्यन्तरमतं दूषयतिनापीति । द्वितीयलक्षणे दूषणमाह
घटादेरिति । तस्यापक्षत्वेनेति । परार्थानुमाने प्रतिज्ञाविषयत्वं पक्षत्वामित्यभिमानः । पदात्वे प्रतिज्ञाविषयत्वे ।