________________
मू०-एवमनुमाने निरूपिते तस्माज्जगनिर्मातृपुरुषधौरेयसिद्धिःक्षित्यादौ कार्य्यत्वेन घटत्वत् सकर्तृकत्वानुमानात् । ननु क्षित्यादि प्रत्येकं न पक्षः, तस्य स्वशब्देनाभिधातुमशक्यत्वात् । नापि मिलितम्, एकरूपाभावात् । अत एव सकर्तृकत्वासकर्तृत्वविचारारम्भकसंशयविषय तथा भूतविवादविषयो वा न पक्षः, एकरूपाभावेन तयोस्तावत् ग्रहीतमशक्यत्वात् । वादिन्नोनिशितत्वेन संशयाभावात् । न च वाद्यनुमानयोस्तुल्यबलत्वेन मध्यस्थस्य संशयः, अनुमानाभ्यां तस्य संशयो मध्यस्य प्रश्नान्तरञ्चानुमानमिति परस्परराश्रयात् घटेपि कदाचित् तयोः सम्भवात् । प्रत्येकं संशये विवादास्पदत्वेचानुमानेऽयोन्तरत्वापत्तेश्च । न च शरीरापेक्षेण का यत्कृतं शरीराजन्यं जन्यं वा पक्षः, जन्यात्मविशेषगुणशब्दफूत्कारसर्गाद्यकालीनवेदघटादिलिप्यादि सम्प्रदायानामीश्वरमात्रकर्तृकाणामसंग्रहात्, असिद्धेश्च अदृष्टद्वारा शरीरिणोपि क्षित्यादिकर्तृत्वात् । नापि जन्यकृत्यजन्यं जन्यम् उभयसिद्धकृतिजन्यान्यजन्यं वा पक्षः, क्षित्यादीनामदृष्टद्वारा जन्यकृतिजन्यत्वात् । नाव्यदृष्टजनककृत्यजन्यं जन्यकृतिसाक्षादजन्यं वा पक्षः, ईश्वरकृतेरदृष्टजनकत्वेन क्षित्यादौ तदभावात् । घटादावप्येवं पदात्वेनांशतः सिद्धसाधवात् । न च दितिरेव पक्षः, अङ्करेण सन्दिग्धोनैकान्तिकत्वात् । न च निश्चितेविपदो हेतुसन्देहात् स इति वाच्यम् । हेतौसाध्याभाववद्गामित्वसंशयस्य दूषकत्वात् । स च साध्याभाववति हेतुसन्देहात् हेतुमति साध्याभावसन्देहाद्भा उभययापि दोषः । न चैवं पक्षेपि तत् स्यात्, अनुमानमात्रोच्छेदकत्वेन तदितरत्र तस्य दूषकत्वात् । अङ्करे हेतोरनिश्चयेन सन्दिग्धानैकान्तिकत्वम्, तन्निश्चये न साध्यसन्देहवति साध्यानुमितिरेव पक्षवत्
सम इति चेन्न । तस्यापक्षत्वेन हेतोः पक्षधर्मताविरहेण स्थापनानुमानाविषयत्वात् । तदा तस्यापि पक्षत्वे प्रतिज्ञान्तरानुपपत्तिः । अनुमानान्तराधीनतत्साध्यानु मित्यनन्तरञ्चपक्षेऽनुमितावितरेतराश्रयानै कमव्यनुमानं स्यात् तत्रापि क्षित्या सन्दिग्धानैकान्तात्, क्षितेविवादविषयत्वे अङ्करे प्रथमं साध्यमाने अयोन्तराच्च ।
अत