________________
तृतीयोऽध्यायः
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ '
अत्रोत्प्रेक्षोपमयोः ॥ यथा
'हुतहुताशनमर्मरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः । निपतिताः परितः पथिकव्रजानुपरि ते परिते पुरतो भृशम् ॥' अत्र यमकोत्प्रेक्षयोः शब्दा (र्था ) लङ्कारयोः ।
उपकारकत्वमङ्गत्वम् । यथा
'हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥'
अत्र श्लेष उपमाया अङ्गम् ।
संशय एकतरस्यानिर्णयः । यथा
'नयनानन्ददायीन्दोर्बिम्बमेतत् प्रसीदति । अधुनापि निरुद्धाशमविशीर्णमिदं तमः ॥'
अत्र मुखेन सहाभेदारोपात् किमतिशयोक्तिः ।
किमेतदिति मुखं निर्दिश्य इन्दुसमारोपणात् रूपकम् । किं मुखनैर्मल्यप्रस्तावेऽन्योक्तिः । अथैतयोः समुच्चयविवक्षायां दीपकम् । किं प्रदोषवर्णने विशेषणसाम्यात् समासोक्तिः । किं मदनोद्दीपककालो वर्तत इति पर्यायोक्तिरित्यनेकालङ्कारसंशयः ।
एकस्मिन् पदेऽर्थशब्दालङ्कारयोरनुप्रवेश ऐकपद्यम् ।
यथा
'प्रथममरुणच्छायस्तावत्ततः कनकप्रभ
१०३
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
१०४
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥'
अत्र जात्यनुप्रासयोः ॥ इष्टार्थस्याऽऽशंसनमाशीः ॥६८॥
यथा
'अजस्त्रं यस्योच्चैः स्फुरदुरुभुजस्तम्भशिखरः स्थितो मुग्धस्निग्धां जननिचयरोचिः कचचयः । प्रशस्तिप्रागल्भ्यं वहति मदमोहारिविजये श्रियं वः स श्रीमान् प्रथमजिननाथः प्रथयतु ॥'
काव्यानुशासनम्
इति महाकविश्रीवाग्भटविरचितायामलङ्कारतिलकाभिधानस्वोपज्ञकाव्यानुशासनवृत्तौ अर्थालङ्कारनिरूपणो नाम तृतीयोऽध्यायः ।