________________
१००
काव्यानुशासनम्
यथा
तृतीयोऽध्यायः 'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥'
एकत्राधारे यत्राधेयद्वयस्यैकेनैकं पिधीयते तत्पिहितम् ॥५२॥
यथा'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एकोऽपि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥'
एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते स व्याघात: ॥५३॥
यथा'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥'
यत्र कार्यकारणयोर्युगपद्भिन्नदेशतयोपलम्भः सा असङ्गतिः ॥५४॥
यथा'अनया जघनापायभयमन्थरया तया । अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥' विकारहेतावप्यविकृतिरहेतुः ॥५५॥
'उदयमयते दिङ्मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति श्रियम् । रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥' अत्रैकस्मिन्पक्षे विभाकरो नाम राजा । प्रकृतमुत्क्षिप्य वक्ता यदन्यथा मन्यते तन्मतम् ॥५७॥ यथा'यदेतत्कन्यानामुरसि तरुणीसङ्गसमये कृतोद्भेदं किञ्चित्पुलकमिदमाहुः किल जनाः । मतिस्त्वेषाऽस्माकं कुचयुगतटीचुम्बकशिलासमावेशाकृष्टस्मरशरशलाकोत्कर इव ॥' उत्तरवचनश्रवणात् प्रश्नोन्नयनमुत्तरोत्तरम् ॥५८॥ यथा'गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥' सामान्यं सामान्येन यत् समर्थ्यते स उभयन्यासः ॥५९॥ यथा'आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे । विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुशलोल्लिखितं सहन्ते ॥' यत्र प्रतीयमानोऽर्थो वाच्योपयोगी स भावः ॥६०॥
यथा
'निद्रानिवृत्तावुदिते धुरत्ने सखीजने द्वारपदं पराप्ते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतो नताङ्गी ।' विशेषोक्तिरिति काव्यप्रकाशः। एकस्मिन् वाक्येऽनेकार्थता श्लेषः ॥५६॥
यथा