________________
द्वितीयोऽध्यायः
'यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूतः । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥' करुणे यथा'गृहिणी सचिवः सखा मिथः प्रियशिक्षाललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥'
दीप्तिहेतुरोजः । वीरबीभत्सरौद्रेषु क्रमेण विशेषतो रम्यम् ॥७१॥
तत्र वीरे यथा'शैलोत्तुङ्गतरङ्गवेगगमनप्रोत्कम्पमानावनि स्तम्बक्षोभितभैरवार्णवभवत्कल्पान्तकालभ्रमम् । क्रोधान्धाः खरदूषणत्रिशिरसः प्राप्तास्त एव द्रुतं ब्रूत ब्रूत भटाः क्व स क्व स नरः शम्बूकजीवाहरः ॥' बीभत्से यथा'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा न्यसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात् प्रकटितदशन: प्रेतरङ्कः करङ्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' रौद्रे यथा'चञ्चद्धजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावबद्धघनशोणितशोणशोचिरुत्तंसयिष्यसि कचांस्तव देवि ! भीमः ।'
काव्यानुशासनम् झगित्यर्थार्पणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः ॥७२॥
यथा'पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥' इति ।
इति दण्डि-वामन-वाग्भटादिप्रणीता दश काव्यगुणाः । वयं तु माधुर्सेज:प्रसादलक्षणांस्त्रीनेव गुणान् मन्यामहे । शेषास्तेष्वेवान्तर्भवन्ति ।
तद्यथा-माधुर्ये कान्तिः सौकुमार्य च, ओजसि श्लेषः समाधिरुदारता च, प्रसादेऽर्थव्यक्ति: समता चान्तर्भवति ।
यदाह'माधुयौंजःप्रसादाख्यास्त्रयस्ते न पुनर्दश । केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः ॥ अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥'
माधुर्यगुणोपयुक्ता वैदर्भी रीतिः । अस्यां च प्रायेण कोमलो बन्धोऽसमासः, टवर्गरहिता निजपञ्चमाक्रान्ता वर्गाः, रणौ हुस्वान्तरितौ च प्रयोज्यौ ॥७२॥
तत्र कोमलबन्धो यथा'अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥' असमासो यथा'अमीभिः संसक्तैस्तव किमु फलं वारिद घटे यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु र्य एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरात् ॥'