________________
द्वितीयोऽध्यायः
६६
अत्र
'अहं कुसुमायुधः, हरस्तु पिनाकपाणिः, तथापि धैर्यच्युति करिष्यामि' इति विशेषोक्तौ गुणः ॥
उचितसहचारिभेदे भिन्नसहचरत्वम् ॥५६॥ यथा'श्रुतेन बुद्धिर्व्यसनेन मूर्खता प्रियेण नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥' अत्र श्रुतबुद्ध्यादिभिरुत्कृष्टैः सह व्यसनमूर्खत्वयोनिकृष्टयोरुक्तिः ॥ विरुद्धार्थप्रतिभासकं विरुद्धव्यङ्ग्यम् ॥५७॥
यथा
'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बला त्तप:श्री: कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्र तस्या अनेककामोऽभिलाषो ध्वन्यते ॥ अन्यथा वर्णनात् प्रसिद्धिविरुद्धम् ॥५८॥ यथा'येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी । भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥' अत्र शशाङ्कोदये पद्मविकाशोऽप्रसिद्धः ।।
काव्यानुशासनम् शास्त्रोक्तविपर्यासे विद्याविरुद्धः ॥५९॥ यथा'मृगीदृशः पल्लवरागकोमलो विभाति दन्तव्रणमुत्तराधरे ।' अत्र व्रणमधराधर एव कामशास्त्रे विहितं नोत्तराधरे ।। अहेतूक्तौ निर्हेतुः ॥६०॥ यथा'चक्री चक्रारपङ्क्ति हरिपि च हरीन्धूर्जटिबूंर्ध्वजान्तानक्षं नक्षत्रनाथोऽरुणमपि वरुण: कूबराग्रं कुबेरः । रंह: संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः ॥' अत्र किमर्थं चक्री चक्रारपङ्क्तिमेव स्तवीतीति हेतु!क्तः ॥ लोकप्रसिद्धौ तु न दोषः ॥६१॥ यथा'चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥' अत्र रात्रौ पद्मस्य सङ्कोचः । दिवा चन्द्रमसो निष्प्रभत्वं च लोके प्रसिद्धम् इति हेतुं नापेक्षते ।
परिवृत्तनियमानियमसामान्यविशेषविध्यनुवादादय काव्यप्रकाशादायुक्ता अपि पूर्वोक्तेष्वेवान्तर्भवन्तीत्यस्माभिर्नोक्ताः ।।
दोषानभिधाय गुणानाह
कान्ति-सौकुमार्य-श्लेषार्थव्यक्ति-समाधि-समतौदार्यमाधुर्योजः-प्रसादा दश गुणाः ॥६२॥
तत्र
१. 'मदेन' इति काव्यप्रदीपे ।