________________
प्रस्तावना
बन्धशतकप्रकरणम्
तस्मिन्नपि बन्धनाभिधं षष्ठमनुयोगद्वारं, तत्रापि चतुर्थं बन्धविधानाख्यमनुयोगद्वारं, तस्य प्रकृतिबन्धादिकाश्चत्वारो भेदाः, तेभ्यश्चतुर्योऽपि भेदेभ्यः | किंचित् सारभूतं समुद्धृत्य समुद्धृत्य रचितमिदं प्रकरणरत्नमेभिः पूर्वधरपूज्यपादैः ।
इदं प्रकरणरत्नं दृष्टिवादनिबन्धनमिति तु साक्षात् ग्रन्थकृद्वचनात् चूर्णिकारवचनाच्च सुस्पष्टम् । एतत् दृष्टिवाद-निबन्धनमित्येव न,
किंतु
"सारजुत्ताओ । वोच्छं कइवइयाओ गाहाओ दिट्ठिवायाओ ॥ इति ग्रन्थकृद्वचनात्,
"दृष्टिवादो द्वादशमङ्गं तस्मात्, दृष्टिवादे हि द्वितीयमग्रायणीयाख्यं पूर्वमस्ति, तत्रापि प्रणिधिकल्पाख्यं पञ्चमं वस्तु, तस्मिन्नपि कर्मप्रकृतिप्राभृतं नाम चतुर्थं प्राभृतं श्रुतविशेषरूपम्, तत्रापि यत्कर्मप्रकृतिबन्धनलक्षणं द्वारं, तस्मादुद्धृत्यैता गाथा अहं वक्ष्ये इति भावार्थः ।"
इति व्याख्यातृवचनाच्चास्मिन् प्रकरणरत्ने यत् गाथानां शतकं तत्र सैद्धान्तिको महान् भागो दृष्टिवादसत्क एवेति निश्चीयते । अनेन संसारवारांनिधौ तरीकल्पां श्रीजिनमूर्ति जिनपूजां च ये निषेधयन्ति तेषां लुम्पकमतीनां यश्च कश्चिदैदंयुगीनः पण्डितंमन्योऽन्धचक्रवर्ती चैत्यं जिनौकस्तद्विम्बम् इत्यादि प्रमाणान्यवमत्य 'वस्तुगत्या चैत्यशब्दो नास्ति जिनमूर्त्यादिवाचको नास्ति च श्रीजिनपूजा सूत्रविहिता' इत्यादिकं प्रलपति तस्य च मुखबन्धो विधीयते, यत एतस्मिन् प्रकरणरत्ने
अरहंत-सिद्ध-चेइय-तव-सुय-गुरु-साहु-संघपडणीओ । बंधइ दंसणमोहं अणंतसंसारिओ जेणं ॥१८॥