________________
बन्धशतक
प्रकरणम्
तेषामसम्भवादिति ।
आहारकमप्रमत्तस्य किमिति न भवतीति चेत् ? उच्यते-अस्मिन् मते आहारकस्यारम्भे समाप्तौ च प्रमत्त एव भवति, लब्ध्युपजीवनादिति नाप्रमत्तस्याहारकद्विकसम्भवः ।
'एक्कारस्स य पमत्ते' ति चः पुनरर्थे भिन्नक्रमश्च, प्रमत्ते पुनरेकादश योगा भवन्ति, नव तावदनन्तरोक्ता एव, तथा आहारकद्विकं चेति । सयोगे सयोगिकेवलिनि, सप्त योगा भवन्ति । सत्यमनोयोगोऽसत्यामृषमनोयोगश्चेत्येवं वाग्योगोऽपि द्विधा । तथैौदारिककाययोगः स्वभावस्थे लभ्यते, औदारिक- मिश्रकार्मणकाययोगौ तु समुद्घातावस्थायामेवम् एते सप्त लभ्यन्ते, न शेषा असम्भवादिति' । ‘अजोगेक्कं' ति प्राकृतशैल्या लुप्तविभक्तिको निर्देशः, एकम् अयोगिकेवलिलक्षणं गुणस्थानम् अयोगं योगविरहितं भवति अयोगित्वादेवेत्यर्थः । एवमेकीयमतं वर्णितम् ॥१२॥
भा० तिसु तेरस इच्चाई तत्थ य सासाणमिच्छसम्मेसु । तेरस जोगा मणचउवइचउकम्मइगउरलदुगं ॥ ११२ ॥
वेडव्विदुगं नाणा जीवे आसज्ज किंतु वेउव्वो । सम्मंताणं चेव उन पंचमाईसु वि गुणेसु ॥११३॥ लद्धिअभावा तेसिं मिस्से दस मणवईण चउ चउगं । ओरालं वेउव्वं एवं दस तह य सत्तसु य ॥ ११४ ॥ १. 'देव' इति सि० ।
गा.-१२
६३