SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ । कालभवखित्तवेक्खो उदओ सविवाग अविवागो ॥१००॥ योगः पूर्वोक्तशब्दार्थः शक्तिरुत्साहः पराक्रमः वीर्यमिति यावत्, तस्मात् योगात् प्रकरणं प्रकृतिः, कर्मणां ज्ञानावरणादिस्वभावः । प्रकृष्टाः पुद्गलास्तिकायदेशाः प्रदेशाः, कर्मवर्गणान्तःपातिनः कर्मस्कन्धाः । प्रकृतयश्च प्रदेशाश्च प्रकृतिप्रदेशमिति समाहारः । तज्जीवः करोतीति सम्बन्धः । प्रकृतिप्रदेशयोर्योगो हेतुरित्यर्थः । एतदुक्तं भवति यद्यपि पूर्वं मिथ्यात्वाविरतिकषाययोगाः सामान्येन कर्मणो बन्धहेतव उक्ताः, तथाप्याद्यकारणत्रयाभावेऽप्युपशान्तमोहादिषु केवलयोगसद्भावे वेदनीयलक्षणप्रकृतिस्तत्प्रदेशाश्च बध्यन्ते । अयोग्यवस्थायां तु योगाभावे न बध्यन्त इत्यन्वयव्यतिरेकाभ्यां ज्ञायते प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणम् । नन्वयं योगः किं स्वरूप: ? कियान् भवति ? सर्वजीवानां च सदृशो विसदृशो वा भवति ? इत्यत्राभिधीयते । योगस्तावत् जीवस्य वीर्यमुच्यते इत्यसकृदुक्तम् । तत्र सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यलब्धियुक्तस्य प्रदेशाः केचिदल्पवीर्याः ॐ केचित्तु बहुबहुतरबहुतमादिवीर्योपेताः । तत्र सर्वजघन्यवीर्ययुक्तस्यापि प्रदेशस्य सम्बन्धिवीर्यं प्रज्ञाछेदेन च्छिद्यमानसङ्ख्येय| लोकाकाशप्रदेशप्रमाणान् भागान् प्रयच्छति । तस्यैवोत्कृष्टवीर्ययुक्ते प्रदेशे यद्वीर्यं तदेतेभ्योऽसङ्ख्येयगुणान् भागान् प्रयच्छति । उक्तं च गा.-१०० ३१२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy