________________
गा.-९२
बन्धशतकप्रकरणम्
मोहनीयायुःकर्मद्वयं न बध्नाति, किं त्वेतदेव प्रस्तुतकर्मषट्कं बध्नाति, अतो मोहनीयायुर्भागयोरत्रैव कर्मषट्के प्रवेशाद्बहुद्रव्यमिह लभ्यत इति सूक्ष्मसंपरायग्रहणम् । उत्कृष्टश्च प्रदेशबन्धो वक्ष्यमाणनीत्या उत्कृष्टेनैव योगेन भवतीत्युत्कृष्टयोगग्रहणम् । उत्कृष्टयोगावस्थानकालश्चैतावानेव भवतीत्येकद्विसमयग्रहणम् । एवं चोत्कृष्टप्रदेशबन्धं कृत्वा उपशान्तमोहावस्थां चारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽत्रैव प्रतिपत्य यदाऽनुत्कृष्टं प्रदेशबन्धं करोति, तदाऽसौ सादिः, एतच्च स्थानमप्राप्तपूर्वाणामनादिः, सदा | निरन्तरं बध्यमानत्वात् । ध्रुवाध्रुवावभव्याभव्ययोः पूर्ववत् । 'सेसतिगे दुविगप्पो 'त्ति भणितशेषे जघन्याजघन्योत्कृष्टप्रदेशबन्धलक्षणे त्रिके द्विविकल्पः साद्यध्रुवलक्षणो बन्धो भवति । तन्नाऽनुत्कृष्टभणनप्रसङ्गेनोत्कृष्टः सूक्ष्मसम्परायेऽनन्तरं दर्शितः। स च तत्प्रथमतया बध्यमानत्वात् सादिः । उपशान्ताद्यवस्थायां पुनरनुत्कृष्टबन्धगमने वाऽवश्यं न भवतीत्यध्रुवः । जघन्यः पुनरमीषां षण्णां कर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोदस्य भवाद्यसमये लभ्यते । जघन्यप्रदेशबन्धो हि जघन्ययोगेन भवतीति वक्ष्यति । स चास्यैव यथोक्तविशेषणविशिष्टस्य लभ्यते । द्वितीयादिसमयेषु त्वसावसङ्ख्येयगुणवृद्धिना वीर्येण वर्द्धत इति भवाद्यसमयग्रहणम् । द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनः सङ्ख्यातेनासङ्ख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यं प्रदेशबन्धं करोति, पुनरजघन्यमित्येवं जघन्याजघन्यप्रदेशबन्धयोः संसरतामसुमतां द्वावप्येतौ साद्यध्रुवौ भवतः । 'मोहाउयसव्वहिं चेव'त्ति मोहायुषोः सर्वस्यैवोत्कृष्टेऽनुत्कृष्टे जघन्येऽजघन्ये च प्रदेशबन्धे 'दुविगप्पो'तीहापि सम्बध्यते, द्विविकल्पः साद्यध्रुवलक्षण एव बन्धो भवति । तत्र मिथ्यादृष्टिः सम्यग्दृष्टिा
२७८