________________
गा.-९२
बन्धशतकप्रकरणम्
उत्तरपयडीणं पि हु भागाइपवत्तणे उ सव्वावि । संखेवओ नओत्ता सा नेया सयगवित्तीओ ॥७८०॥
किंची पुण विउसेहि समईए एत्थ ऊहियव्वं ति । एत्तो भणेमि संपइ सायाइपरूवणादारं ॥७८१॥ तदेवमवसितं भागद्वारम् साम्प्रतं साद्यादिप्ररूपणां चिकीर्षुराह
छण्हं पि अणुक्कोसो पएसबंधे चउव्विहो बंधो ।
सेसतिगे दुविगप्पो मोहाउयसव्वहिं चेव ॥१२॥ अपिशब्द एवकारार्थो भिन्नक्रमश्च । षण्णां ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणानां कर्मणामनुत्कृष्ट एव | प्रदेशबन्धे चतुर्विधः साद्यनादिध्रुवाध्रुवलक्षणो बन्धो भवति । इह तावद्यत्र सर्वबहवः कर्मस्कन्धा गृह्यन्ते स उत्कृष्टप्रदेशबन्धस्ततः स्कन्धहानिमाश्रित्य यावत्सर्वस्तोककर्मस्कन्धग्रहणं तावत्सर्वोऽप्यनुत्कृष्ट इत्युत्कृष्टानुत्कृष्टप्रकाराभ्यां सर्वोऽपि प्रदेशबन्धः सङ्ग्रहीतः । यत्र सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यप्रदेशबन्धः, ततः एकस्कन्धवृद्धिमादौ कृत्वा यावत्सर्वबहुस्कन्धग्रहणं तावत्सर्वोऽप्यजघन्य इति । जघन्याजघन्यप्रकाराभ्यां वा सर्वोऽपि प्रदेशबन्धः सङ्ग्रहीत इत्यनया परिभाषयाऽमीषां षण्णां कर्मणामनुत्कृष्टः प्रदेशबन्ध साद्यादिचतुर्विकल्पो भवतीत्यर्थः । तथा हि-प्रस्तुतकर्मषट्कविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते । सूक्ष्मसम्परायो हि
२७७