SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ गा.-८८ बन्धशतकप्रकरणम् अत्र च सिद्धान्तिकाबृहच्चूर्ण्यनुसारेण कार्मग्रन्थिकाश्च केचिदौदारिकवैक्रियाहारकवर्गणानामप्यन्तरद्धयेऽग्रहणवर्गणा इच्छन्ति, | | युक्तं चैतल्लक्ष्यते, यत औदारिकवर्गणाभ्यो वैक्रियवर्गणाः ताभ्योऽपि चाहारकवर्गणाः प्रदेशतोऽसङ्ख्येयगुणा इष्यन्ते, एतच्चान्तरालेऽग्रहणवर्गणाऽन्तरेण नोपपद्यते, परं कर्मप्रकृत्यादिषु केनाप्यभिप्रायेण नोक्ता इत्यस्माभिरपि नाभिहिता इत्याद्यन्यदपि सैद्धान्तिकमतभेदादिकं बहु अत्र वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रफलत्वात्प्रयासस्येति । तदेवमत्र | कर्मवर्गणास्वरूपं द्रव्यं कर्मणो योग्यं, शेषं त्वयोग्यमित्यस्य व्यवच्छेदार्थं कर्मणो योग्यमिति विशेषणम्, तदेवमवसितः कर्मप्रदेशादानविधिः । साम्प्रतं भागप्ररूपणाया अवसरः । तत्र य उपशान्तमोहादिरेकं वेदनीयमेव बध्नाति, स यत्किमपि द्रव्यं गृह्णाति, तदेकस्य वेदनीयस्यैव भवति, अन्यस्य तत्र बन्धाभावात् । यस्तु सूक्ष्मसम्परायः षड्विधं बध्नाति, तेन गृहीतं द्रव्यं षड्भिर्भागैः परिणमति । सप्तविधबन्धकस्य सप्तभिर्भागैरष्टविधबन्धकस्य त्वष्टभिर्भागैः परिणमति ॥८९।। भा० एगपएसोगाढं ईगाहदुगेण पढमदारं ति । वन्नेइ तत्थ कम्मं जह गिण्हइ तह किर भणइ ॥७६५॥ इह एगस्स जियस्स उ लोगागासप्पएसपरिमाणा । हुँति पएसा ते पुण मिच्छाईबंधहेऊण ॥७६६।। उदए सव्वेहिं पिय निययपएसेहिं बंधए जीवो । न उ एगदुगाईहिं एगपएसावगाढंति ॥७६७॥ जत्थेव उ जीवस्स उ निययपएसा तहिं च किर खेत्ते । जं अवगाढं दव्वं तं गिण्हइ न पुण बाहिरयं ॥७६८॥ एगपएसे वावरमाणे सव्वेसि होइ वावारो । अइनिविडहेमसंकलगडियाण्णोवन्नजुत्ताणं ॥७६९॥ २७०
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy