________________
गा.-८१
बन्धशतकप्रकरणम्
चक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनावरणानि, पञ्चान्तरायाणि, चत्वारः सज्वलनाः, नव नोकषाया एताः पञ्चविंशतिप्रकृतयो देशघातिन्यो विज्ञेयाः । तथा हि मत्याद्यावरणचतुष्कं केवलज्ञानावरणमुक्तं ज्ञानदेशं हन्तीति देशघाति । ज्ञानचतुष्टयविषयभूतानर्थान् यन्न पश्यति, स हि मत्यावरणाद्युदयः, तदविषयभूतास्त्वनन्तगुणान् यन्न पश्यति, स केवलज्ञानावरणस्यैवोदय इति। चक्षुरचक्षुरवधिदर्शनावरणान्यपि केवलदर्शनावरणानावृतदर्शनैकदेशमावृण्वन्तीति देशघातीनि । तथा हि चक्षुरचक्षुरवधिदर्शनविषयभूतानेवार्थानेतदुदयान्न पश्यति, तदविषयभूतांस्त्वनन्तगुणान् केवलदर्शनावरणोदयादेव न पश्यति । दानान्तरायादीनि पञ्चान्तरायाण्यपि देशघातीन्येव । तथा हि दानलाभभोगोपभोगानां तावद्ग्रहणधारणयोग्यान्येव द्रव्याणि विषयः, तानि च समस्तपुद्गलास्तिकायस्यानन्तभागरूपे देश एव वर्त्तन्ते । अतो यदुदयात्तानि पुद्गलास्तिकायदेशवर्तीनि द्रव्याणि दातुं लब्धं भोक्तुमुपभोक्तुं च न शक्नोति, तानि दानलाभभोगोपभोगान्तरायाणि तावद्देशघातीन्येव । यत्तु सर्वलोकवर्तीनि द्रव्याणि न ददाति न लभते न भुङ्क्ते नाप्युपभुङ्क्ते तन्न दानान्तरायाधुदयात्, किन्तु तेषामेव ग्रहणधारणाऽविषयत्वेनाशक्यानुष्ठानत्वादिति मन्तव्यम् । वीर्यान्तरायमपि देशघात्येव तदुदयेऽपि हि निगोदजीवान् आदौ कृत्वा यावत्क्षीणमोहस्तीर्थकरादिस्तावद्वीर्यमल्पं बहु बहुतरं बहुतमं च तारतम्याद्भवत्येवेति देशघातीदम् । यदि पुनः सर्वघाति स्यात् तदा यथैव मिथ्यात्वस्य कषायद्वादशकस्य वा उदये तदावार्यसम्यक्त्वगुणं संयमगुणं च जघन्यमपि न लभते, तथैवैतदुदयेऽपि तदावार्यं जघन्यमपि वीर्यगुणं न लभेत, न चैवं, तस्मादिदमपि देशघातीति स्थितम् । सञ्चलना नोकषायाश्च लब्धस्य चारित्रस्य देशघातिन एव, मूलोत्तरगुणातिचारजनकत्वात् ।
२४९