________________
बन्धशतक-IA प्रकरणम्
सयोग्ययोगिकेवलिनौ यथासङ्ख्यं ध्याताराविति द्वितीयगाथाभावार्थः । तदेवं क्षपकोपशमकयोः शुक्लध्यानस्याप्युक्तत्वान्नेह शुक्लध्यानग्रहणं विरुद्धम् । बृहच्चूर्ण्यभिप्रायस्तु सरागस्य सूक्ष्मसरागस्यापि धर्मध्यानमेव । यत्पुनरिह शुक्लध्यानाभिधानं तदासन्नवीतरागभावमपेक्ष्योपचारतो द्रष्टव्यम् । वीतरागस्यापीत्थं शुक्लध्यानसम्भवः ।
'उसंतो उ पुहुत्तं, झायइ झाणं वियक्कसवियारं । खीणकसाओ झायइ एगत्तवियक्कमवियारं ॥१॥ सुहुमकिरियं सजोगी झायइ झाणं तु चरमकालम्मि । केवलिअजोगिनिच्चं झायइ झाणं समुच्छिन्नं ॥२॥
इत्यलं विस्तरेण, शेषं बृहच्चूर्णितः स्वयमेवावगन्तव्यम् । अत्र च क्वचिद्वन्धेन शेषं नियमयति । क्वचित्तु शेषेण बन्धमिति सर्वथाऽप्यभिधानेऽविरोधादिति गाथार्थः ॥३५॥ भा० सुहुमोऽट्ठवेयगो इह सुक्कज्झाणेण डहइ कम्मं ति । जं वुत्तं तं आसन्नवीयरागत्तणमवेक्ख ॥१७४॥
ट्ठव्वमन्नहा ऊ सुहुमस्स उ धम्मझाणमेवेगं । होई एवं पुण गुरुयचुन्निभिप्यायओ वुत्तं ॥१७५॥ लहुचुन्निअभिप्पाएणं सुक्कज्झाण आइयदुभेयं । न विरुद्धं पुव्वधराण होइ सुत्ते जओ भणियं ॥१७६॥
१. उपशान्तस्तु पृथक्त्वं ध्यायति ध्यानं वितर्कसविचारम् । क्षीणकषायो ध्यायति एकत्ववितर्कमविचारम् ॥१॥
सूक्ष्मक्रियं सयोगी ध्यायति ध्यानं तु चरमकाले । अयोगिकेवली नित्यं ध्यायति ध्यानं समुच्छिन्नक्रियम् ॥२॥