________________
बन्धशतक
गा.-३४
प्रकरणम्
मोहसयोगिकेवलिन इत्यर्थः । अमी सातबन्धकाः सन्तो यथासम्भवं चत्वारि वा सप्त वा कर्माणि वेदयन्ति । तत्र | सयोगिकेवली चत्वारि वेदयति, इतरौ तु मोहोदयरहितत्वात् सप्तेति । उदीरयन्ति पुनर्यथासम्भवं द्वे पञ्च वा कर्माणि । सयोगिकेवली नामगोत्राख्ये द्वे एव कर्मणी उदीरयति । तथा क्षीणमोहोऽपि ज्ञानदर्शनावणान्तरायेष्वावलिकाऽप्रविष्टेषु पञ्च उदीरयति, ततः परं पूर्वोक्तयुक्त्या द्वे एवोदीरयति । उपशान्तमोहस्तु सर्वदा पञ्चैवेति ।
इदमुक्तं भवति-उपशान्तमोह: सातमेकं बन्धन् सप्तप्रकृतीर्वेदयति, पञ्च उदीरयति । क्षीणमोहस्तु सातमेकं बन्धन् सप्तप्रकृतीर्वेदयति, पञ्च द्वे वा उदीरयति । सयोगिकेवली तु सातमेकं बध्नाति, चत्वारि भवोपग्राहीणि वेदयति, द्वे नामगोत्रे उदीरयतीति । अत्र प्रासङ्गिकमाह-संसारगते संसारविषये वा भजनीयो विकल्पनीयोऽसावुपशान्तादिः कस्यचिदस्ति संसार: कस्यचिन्नास्तीत्यर्थः, क्षीणमोहसयोगिकेवलिनोर्नास्ति पुरतः संसारस्तद्भवसिद्धिकत्वात् । उपशान्तमोहस्य तु स्यादप्युत्कृष्टत अपार्द्धपुद्गलपरावर्त्तसंसारित्वादिति गाथार्थः ॥३४॥ भा० इरियावहमाउत्ता सजोगिखीणोवसंतगा भणिया । जोगि चउ खीणुवसमा सग वेयोदीरणाए उ ॥१७१॥
जोगी दो खीणो पुण आवरणदुगंमि विग्धपणगम्मि । आवलिया अपविढे पण तदुवरि दुन्नुदीरेइ ॥१७२॥ संसारगयम्मि त्ति य संसारभमणविसयम्मि भयणिज्जा । उवसंतो संसारी, सजोगि खीणा असंसारी ॥१७३॥
m
FY