SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् अनुदीरयन्नेव चतुर्विधमघातिचतुष्टयमनुभवति-वेदयति । बन्धमाश्रित्याह- 'इरिये 'त्यादि । ईरणमीर्या मिथ्यात्वाविरति-कषायरहितः केवलयोगव्यापार इत्यर्थः, सैव ईर्या जीवगृहप्रवेशे पन्था मार्गों यस्य तद् ईर्यापन्था ईर्यामात्रप्रत्ययं सातावेदनीयमित्यर्थः, तत्किल पूर्वैरुपशान्तमोहादिभिर्बद्धम्, अयं पुनस्तदपि न बध्नाति तत्प्रत्यययोगव्यापाराभावात् । कथम्भूतः सन्नित्याह'आसन्ने 'त्यादि । इह सन् पदेन मोक्ष उच्यते तस्यैव वस्तुवृत्त्या सत्त्वात् । संसारावस्थाविशेषा हि सर्वे कर्ममलपटलाच्छादितत्वात्, स्वरूपालाभरूपत्वात्, आसन्नः जीवानां वस्तुतोऽसन्त एव, मोक्षपर्यायस्तु कर्ममलपटलविनिर्मुक्तत्वात्, स्वरूपलाभरूपत्वात् सन् उच्यते । ततश्च 'पुरक्खडो' इत्युकारस्यालाक्षणिकत्वादासन्नः पुरस्कृतोऽग्रीकृतः सन् मोक्षो येन स आसन्नपुरस्कृतः सन् इदमुक्तं भवति - आसन्नमोक्षस्त्वयोगिकेवली अबन्धकोऽनुदीरयंश्चतुर्विधं वेदयतीति गाथार्थः ॥ ३३ ॥ भा० अज्जोगिरियावहियं सायावेयं पि नेव बंधेड़ । आसन्ननियडवत्ती पुरक्खडो सम्मुहो य कओ ॥ १६९ ॥ संतो मोक्खो जेणं सो आसन्नपुरक्खडो संतो । वुच्चइ पुरक्खडो इह सद्दे ओ ( उ )लक्खणविहीणो ॥१७०॥ इरियावहमाउत्ता चत्तारि व सत्त चेव वेयंति । उझिँति दोन्नि पंच व संसारगयम्मि भयणिज्जो ॥३४॥ अनुस्वारस्यालाक्षणिकत्वादीर्यापथे सातावेदनीयकर्मण्यायुक्ता ईर्यापथायुक्ताः- सातवेदनीयबन्धका उपशान्तक्षीण गा.-३४ ९२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy