________________
आभाणकजगन्नाथः
आभाणकाः “नन्दनवनकल्पतरौ " प्रकटिताः । तस्यां पत्रिकायाम् आभाणकाः सर्वे अकारादिक्रमयुज आसन् । अधुना प्रकाशमाप्नुवाने ग्रन्थेऽस्मिन् आभाणका विषयानुगुण्येन विभक्ताः । नूतना अपि बहवो योजिताः । "सागरिकायाः प्रख्याग्रन्थमालायां प्रकटिते प्रथमे मुद्रणे केवलं चतुरुत्तरसप्तशतम्(७०४) आभाणका दत्ता आसन् । द्वितीये मुद्रणे चतुःशतमाभाणका अधिका अभूवन् । आहत्य शतोत्तरसहस्रम् (११०० ) अभूत् संख्या । तृतीयेऽस्मिन् संस्करणे पुनरधिका द्वाविंशत्युत्तरं द्विशतमाभाणका यो यत्फलतयेदानीम् आभाणकानामाहत्य संख्या त्रिशतोतरं सहस्रं द्वाविंशतिश्च (१३२२) । सत्यं निगूहितुं नेच्छामि । त्रिशतोत्तरसहस्रमिति संख्ययाऽऽकृष्टोऽस्मि । संख्या पूरणार्थं सृष्टानां सर्वेषामप्याभाणकानां प्रशस्तत्वं नैव सिद्ध्यतीति तु स्फुटम् । अस्तु, पीठिकायां बहवो नूतना विषयाः प्रतानिताः। प्रथममुद्रणगतायां पीठिकायां स्थिता विचारविरुद्ध अंशा द्वितीय एव संस्करणे परित्यक्ताः । तृतीयसंस्करणगतायां पीठिकायां नव विषयजातमितिहासपुराणगत‘सुभाषितानां विषये योजितम् । अपि च 'एवमपि कदाचित्(३)','प्रेम्णो महिमा (२९) वाल्मीकीयभिन्नंरामायणम् (४८)', 'अभिमानलेशेनापि हीनाः (५२)', 'दर्शनम् (९६)' च एते पञ्च विभागा नवीनास्तृतीये संस्करणे ।
क्लिष्टेऽस्मिन् कर्मणि व्यापृतस्य मम बुद्धम् आभाणकानां रचनावेदना प्रसूतिवेदनानिर्विशेषेति । कदाचित् प्रासाभानं, कदाचित्समुचितपदाभानं, पदप्रासयोर्भानि कदाचिदर्थास्तव्यस्तता- सर्वमपि मयाऽनुभूतम् । कदाचिदाभाणकानां रचना क्लिष्टेति त्यक्तव्य एष उद्यम इत्यपि चिन्तितम् । सुभाषितानां रचनापेक्षयाऽऽभाणकानां रचना क्लिष्टतरेति विदितम् । कथंचिद् हठेन पूर्तिमनायि ग्रन्थोऽयम् ।
आभाणकानां विभागोऽत्र स्थूलया दृष्ट्या कृतोऽस्ति । तेषां वर्गीकरणम् अतीव क्लेशप्रदं कर्म । शक्यम् एकस्यैवाभाणकस्य द्वयोर्विभागयोर्द्वयधिकेषु वा विभागेषु स्थापयितुम् । मया यस्मिन् विभागे य आभाणकः स्थापितस्तदपेक्षया भिन्नतर एव विभागे तस्याभाणकस्य स्थापनोचिततरेत्यपि कदाचित् पाठकानां प्रतिभायात् । अत्राभाणकानां विश्वतोमुखत्वमेव कारणम् ।
आभाणकजगन्नायः
द्वितीये संस्करणे केषुचनाभाणकेषु वैदिकानां शब्दानामुपादानमपि कृतमासीत्। तृतीये तु संस्करणे तेषां संख्याऽधिकतरा जाता । अत्र किञ्चिद् विवक्षामि । कालिदासेन शाकुन्तलचतुर्थाङ्के अमीं वेदिमित्यादिपद्यस्य वैदिक्या भाषया निर्माणं, वेदपादस्तोत्रेषु (विष्णुवेदपादस्तव-हयग्रीववेदपादस्तवेत्यादिषु) कविभिर्वास्तविकानामेव वैदिकानां वाक्यानां चतुर्थे पादे समादानं, वैदिक्यैव भाषया सूक्तादीनां दर्शनं (महर्षेर्देवरातस्य छन्दोदर्शनमत्र प्रसिद्धमुदाहरणम्), वैदिकीं शैलीमवलम्ब्य सूक्तपद्यादिरचना (नवलकिशोरकाङ्करस्य राष्ट्रवेदस्तथा वेदभारतीस्वामिनश्छान्दसी) इत्येतासु कृतिषु वैदिक्या जीवनाड्या लौकिक्यां भाषायामवशेषणार्थं प्रयत्नः कृतः । तस्मान् मत्कायां रचनायां केषाञ्चन वैदिकानां पदानां प्रवेशो नातीव विचित्रः । एष रचनाया मानोन्नतये प्रभूयादिति ममाशीः । वैदिकानां शब्दानामर्थविषये (२.१५, ९.१०.१५.१,२३.६) डा. सुधीरकुमारगुप्त- नानावते - मधुसूदनमिश्ररचितानां संशोधनप्रबन्धानामवलम्बनं कृतम् । अम्बरकरण्डकशब्दे (३२.४) के.वि. कृष्णमाचार्युलुरचितः संशोधनप्रबन्धः, अभिनिम्रुक्तशब्दे (६२.१५) तिरुमङ्गलं नडादूर् नरसिंहाचार्यरचितः शिष्टप्रयोगसंग्रह, सौशब्दे (९१.८) डा. कुलकर्णिसंपादिता सौभरिरचिता एकाक्षरमाला, नागस्वरशब्दे (९२.६) च डि.टि. ताताचार्यशिरोमणिरचितः संशोधनप्रबन्धश्च प्रमाणम् । पञ्चत्रिंशे (३५) विभागे दत्तानां पक्षिनाम्नामाधारस्तु एल्फ्रन् लिङ्क रचितं पक्षिनामपरिशिष्टम् ।
अत्यन्तमवधानेन प्रतिसंस्कृतं तृतीयमिदं जन्म। एकविंशत्युत्तरं द्विशतमाभाणका अधिका अस्मिन् संस्करणे । बहवो लोपागमादेशाः, योजनेष्वकारादिक्रमस्य शुद्धं स्थापनं, मुद्रणदोषाणां क्वाचित्कानां परिमार्जनमित्यादि कृतं संस्करणेऽस्मिन् । टिप्पणीगतानां सर्वेषामपि पदानामकारादिक्रमवती सारणी, वाचकानां झटित्यभीष्टाभाणकपरामर्शानुकूल्यस्य सिद्धये सर्वेषाम् अप्याभाणकानाम् अकारादिक्रमयुक् परिशिष्टं चान्ते योजिते ।