________________
कृतज्ञतासमर्पणम्
मदीयाः शतं नतयः
-नन्दनवनकल्पतरौ आभाणकजगन्नाथस्य प्रकाशनकृपाप्रदायकेभ्यस्तत्रभवद्भ्यो विजयशीलचन्द्रसूरिवर्येभ्यः, ग्रन्थरूपेणामीषां प्रथमं प्रकाशनं कृतवद्भ्यां प्रख्याग्रन्थमालायाः संपादकाभ्यां डा. राधावल्लभत्रिपाठि -डा. अच्युतानन्ददाशाभ्यां द्वितीयसंस्करण प्रकाशवित्रे विश्वविख्यातायाः परिमलग्रन्थप्रकाशनसंस्थाया अध्यक्षाय श्री कन्हैयलालजोशिने,कर्णावत्यां स्वकीयं गृहग्रन्थालयं दर्शयित्वा मां विस्मयोदधौ निमज्जितवते श्रीहिमांशुजोशिनं च मह्यं परिचायितवते “आर्. एच्. पटेल कालेज् आफ् आर्ट्स एण्ड् कामर्स्” विद्यालये संस्कृताध्यापकाय श्री अरुणकुमार मिश्राय, कर्णवत्यां मम निवासावसरे मम निवासस्थलं स्वयमागत्य परिमलप्रकाशने बहून् विचारान् परिचाय्य मम भुजास्फालनं कृत्वा प्रोत्साहितवते श्रीहिमांशुजोशिने च ।
बेङ्गळूरवीये न्याषनकालेज के प्राचार्यस्तत्रभवान् “विद्यानिधि" बिरुदाङ्कितः के.एस्. कण्णन्वर्यो गालोडितपूर्वकमस्यां कृतौ निक्षिप्त-व्याकरणाञ्जनपूतकटाक्षः सन् भाजनमस्ति मदीयाया अनल्पायाः कृतज्ञतायाः ।
मन्त्रालयीयस्य राघवेन्द्रमठस्य पीठाधिपतीनां श्रीश्री १०८ श्री सुशमीन्द्रतीर्थश्रीपादानां तथा तत्करकमलसंजातानां श्रीश्री १०८ श्रीसुयतीन्द्रतीर्थश्रीपादानां पादकमलयोः सादरं प्रणामान् समर्पयामि ।
तेषामादेशानुसारेण तदाप्तकार्यदर्शी तत्रभवान् श्रीमान् राजा एस्. राजगोपालाचार्यवर्यः मूर्त इव ग्रन्थप्रकाशनोत्साहो विराजते । ग्रन्थान् रचयितॄन् प्रोत्साहयन् ग्रन्थप्रकाशनेन रचनायाः फलं लोकम् उपसर्पयंश्चैष महाभागः सूक्ष्मां दृष्टिं बिभ्राणो ग्रन्थान् कर्तॄणां मादृशां कृतज्ञतायाः पात्रमिति नापेक्षते
सुविस्पष्टं गदनम् ।
तिरुपतिस्थराष्ट्रीयसंस्कृतविद्यापीठस्य कुलपतिचरेभ्यः महाविद्वद्भ्यः श्री डि. प्रह्लादाचार्येभ्यः धन्यवादान् समर्पयामि ये स्वयं विरचितानेकग्रन्थाः सन्तो मादृशां प्रेरणामधिकतरामनिशमुत्पादयन्ति ।
एतादृशग्रन्थानां मुद्रणादिव्यवहारेषु सश्रद्धं सोत्साहं च कर्तव्यभारं निर्वहन् प्राच्यविद्यासंशोधनालयीयो विद्वान् डा. डि.पि. मधुसूदनाचार्यो ममादरस्य पात्रमस्ति । इदंप्रथमतया ग्रन्थोऽयं सुधर्मासंस्कृतपत्रिकायाम् १९८२ ईसव्याम् अवततार । पुस्तकाकारेणादिमं मुद्रणमस्य मध्यप्रदेशीय - प्रख्याग्रन्थमालायां २००५ ईसव्यां संजातम् ।
परिष्कृतं सदेतद् द्वितीयं परिष्कृतं जननं नवदिल्लीस्थपरिमलप्रकाशनद्वारा २००७ ईसव्यां प्राप्नोत् ।
तृतीयवारमस्य पुनर्जन्म मन्त्रालयस्थराघवेन्द्रमठे २००९ ईसव्यां समभूत् । तस्यैवाधुना प्रचारोऽस्ति विश्वस्मिन् ।