________________
गाथाशब्दः प्राकृतादेव संस्कृतं प्रविष्ट इत्यत्र नास्ति गमकः । “कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि " इति रामायणीये श्लोके (सु. ३४.६)गाथाशब्दो जनतया व्याह्रियमाणायां सामान्यायां नीतौ वर्तते । “गाथा ताथागतानां गलति ”( वेदान्तदेशिकप्रणीते तत्त्वमुक्ताकलापे पञ्चशततमं पद्यम्)इत्यत्र गाथाशब्दः शास्त्रीयं समयं न्यायं वा सूचयति । मैत्रेय्युपनिषदि वर्तमान गाथाशब्दः प्राकृतमूल इति कथमवसेयम् ? प्राकृतगाथा नैवाभाणकसखी । सा छन्दोविशेषः । यदि प्राकृतगाथाशब्द एव गादेशब्दस्य मूलमभविष्यत्, तालगतिं वा छन्दोगतिं वा स नात्यक्ष्यन्नापि नीतिबोद्धत्वरूपं भिन्नतरं कर्तव्यभारम् अवश्यत् । कन्नडभाषायाम् उपलभ्यमानानि सर्वाण्यपि गादेवाक्यानि गद्यमयान्येव । गादेशब्दस्य गीतपरत्वेऽपि गायक-गाथि-शब्दयोर्वेदिकयोरस्य बन्धुत्वं निरपवादम् । नीतिबोद्धृत्वरूपधर्मवत्योऽपि गाथाः संस्कृतवाङ्मये कामं गोचरः । तस्मात् कन्नडा - भाणकभवनं गादेरूपेण प्रविष्टोऽतिथिर्गाथाशब्दो मूलतः सांस्कृतस्यैव साम्राज्यस्य प्रजेति किं न सुवचम् ?
ममेदं प्रतिपादनं विद्यानिधिविरुदभाजा बेङ्गळूरवीयेन न्याषनल्-कालेज्के संस्कृतविभागाध्यक्षेण प्राचार्येण तत्रभवता के. एस. कण्णन्वर्येण संकलिते संपादिते च सकन्नडानुवादे सूक्तिकोशे समुद्धृतं पद्यं पोषयति ।
इत्थंभूतं तत् पद्यम्
सर्वोद्वेगकरं मृगादनममुं संत्यज्य हा धिक् त्वया लोकस्थानपकारिणं गिरिनदीतीराटवीनिर्वृतम् ।
अश्नन्तं तृणमेणशावमदयं व्याध ! नतामुं वृथा
'देवो दुर्बलघातकोऽयमिति सा गाथा यथार्थीकृता' ।।
न केवलमेतावदेव, तत्रभवान् सुविस्पष्टमेवमाह - “कन्नडस्य गादेवाक्यानां १. सूक्तिकोश- के. एस्. कण्णन् । पृ. ३०. Abhijnana, Gokhale Institute of Public Affairs Campus, N.R.Colony, Bangalore-560019. 2007
संस्कृतस्य गाथा एव मूलम् (कन्नडद ‘गादे' गे संस्कृतद 'गाथे' ये मूल)” ।
केचन कन्नडाभाणकेषु भागद्वयम् - पूर्वार्धम् उत्तरार्धं चेति । उभौ भागौ मात्रागणेन वा अंशगणेन वा किञ्चिदिव उच्चारणकालसाम्यं कदाचिद् दर्शयतः । अनेकेषु आभाणकेषु भागद्वयस्यापि प्रथम शब्दौ (आदिमे वर्णे आहोस्विद् द्वितीये वर्णे) प्रासवन्तौ । एतेन बन्धदाढर्च्चमाविर्भवति ।
संस्कृतेतरभाषागताभाणकानामनुवादाः पूर्वैः सूरिभिः कृताः । देवनागरीलिप्या वङ्गभाषागताः केचनाभाणकास्तेषां संस्कृतानुवादाश्च उभयेषां दर्शनं मया कृतं संस्कृतचन्द्रिकापत्रिकायाम् (१९०५ एप्रिल् - १९०६ मार्च् ) । बङ्गीयप्रवादानुवादइति कृतेरस्याः संज्ञा । तत्र रचयितुर्नामधेयं न मुद्रितम् । रचयिता पीठिकायाम् एवं ब्रवीतिः-“इमानि खलु प्रवादवचनानि वङ्गीयस्थानात् प्राचीनेभ्यः पुरुषेभ्यो योषिद्ध्यश्च कलहशीलाभ्यः (!)समग्राहिषम् ” । कृतिरियं पार्थक्येन ग्रन्थाकारं लम्भिता वा न वा न जाने । ततश्च करूर् शेषाचार्येणापि लौकिकगाथाचतुश्शतीति संज्ञया केषाञ्चन कन्नडाभाणकानामनुवादः संस्कृतत्वं लम्भितः । मूलमंत्र न दत्तम् । स ग्रन्थो महाराजसंस्कृतमहापाठशालापत्रिकायां प्रकटितः । पार्थक्येनापि ग्रन्थाकारं प्रापितः ।
लोकप्रसिद्धाभाणकानामनुकरणेन स्वतन्त्रान् आभाणकान् केचिदरचयन् ग्रन्थरूपेण प्राकाशयंश्च । तत्रभवता वासुदेवद्विवेदिना रचिता दीपकलिका (या परमार्थसुधायां प्रकटिता) अत्र निदर्शनम् । आभाणकमञ्जर्यप्यत्र गणनीया या अर्वाचीन संस्कृतप्रकाशनतः प्रकटिता।
वर्षाणां सप्तविंशतिः प्रयतितनवीनाभाणकसर्जनस्य मम । चतुःशतम् (४००) आभाणकास्तदा रचिताः “सुधर्मा' पत्रिकायां च क्रमशः प्रकटिताः । गच्छता कालेन पूर्वरचितेष्वाभाणकेषु शतम् आभाणका बन्धदाढर्यहीनत्वादुत्पाटिताः । एवम् आहत्या
कसंख्या त्रिशतम् (३००) अभूत् । अवशिष्टेष्वपि शैलीदृष्ट्या बहवो लोपागमादेशाः कृताः। तत एकोत्तरं त्रिशतम् (३०१)आभाणका योजिताः । एकोत्तरं षटु तम् (६०१)
7