________________
सुभाषितत्वेनाभाणकत्वेन च लोके प्रसिद्धाः, सुभाषितसंग्रहेषु च मुद्रिताः केचन वाक्यसमुदायास्तु कच्चरपरीवाहस्तरीयाः । स्त्रीणामवमाननया पुरुषाणामुद्धटत्वप्रदर्शनमेतेष्वतीव साधारणं वस्तु । वस्तुतस्तु काव्येषु यथा उत्तम - मध्यमाधमत्वं तथा 'सु' (?) भाषितेष्वप्याभाणकेष्वपि !
"पतिरस्तु लम्पटो मद्यपायी वा तस्य पादयोः प्रक्षालनं प्रतिदिनं पन्या करणीयम्” इति स्त्रीणामुपदेशनां कुर्वाणानां पद्यानां संकलनं नवीनेष्वपि केषुचन 'सुभाषित' (?) संग्रहेषु दृष्टं मया । हंहो ! “रोगिणीम् उन्मत्तां दोषैरनेकैर्दूषितामपि पत्नीं पतिर्न त्यजेद् ” इति वा,‘“पतिः पल्यां सदाऽपि स्निह्येद्” इति वा ‘सु’भाषितेष्वेतेषु कदाऽपि नोच्यते ! वस्तुतस्तु इतिहासपुराणादिकं युद्धादिवर्णनाद् भाषासौष्ठवाद्वा श्लाघ्यं, न पुनरेतादृशानां 'सुभाषितानां कारणात्। एवंभूताः श्लोका इतिहासे पुराणेषु च वर्तन्तां नाम तेन किम् ? श्लोकेष्वेतेषु भूयान् ‘आदर्शो वर्त इति घोषयितॄणां मध्ये केचिदात्मानं संस्कृतज्ञत्वरूपधर्मवन्तं ख्यापयन्त इति तु गण्डस्योपरि विस्फोटः । ते प्रष्टव्याः-रामलक्ष्मणादयः पाण्डवादयश्च युद्धविद्यायां निपुणतमा इति यत् प्रतिपाद्यते रामायणे भारते च तत्र किमिति भवद्भिः कटाक्षो न पात्यते ? किमर्थं वा भवन्तः सैनिका न बुभूषन्ति ?
पञ्चतन्त्रे वर्तमानाः काश्चनाश्लीलाः कथाः कामुकैः पुरुषैर्वान्ता इत्यत्र न संशयः । तासु कथासुद्धृतानां केषाञ्चन पद्यानां भावा अनार्यैधूर्तेर्वा श्लाघ्या न पुनरार्यैः । मत्के ग्रन्थभवनेऽस्मिंस्तादृशानां प्रवेशावकाशो निर्दाक्षिण्यं न्यषेधि ।
“तर्हि भवता सृष्टानाम् आभाणकानां सर्वेषां ग्राह्यत्वं कथम् ?” इति प्रश्नः सहजः। अत्रेदं प्रामाणिकमुत्तरम् - प्रकरणवशान्मम प्रतिभातानामाभाणकानामयं संगहः । अत्रत्यानां सर्वेषां वाक्याभिप्रायाणां सज्जनगेयत्वस्य परमोत्कृष्टस्तरे वर्तमानत्वस्य वा प्रतिपादयितुमशक्यत्वेऽपि जुगुप्साधायिनोऽर्थाः प्रयत्नादत्र पर्यहारिषतेति तु कथञ्चित् स्वभुजास्फालनस्य हेतुः स्यात् । लोकानुपदेष्टुं मादृशस्य साधारणस्य जनस्य का वाऽस्त्यर्हता ? वाक्यानां भङ्गीवैचित्र्यमेव ग्रन्थेऽस्मिन् प्रधानतयाऽवधेयो धर्मः ।
वैयक्तिकाः केचनानुभवाः, श्रुता घटना, दृष्टानि दृश्यानि पठितेषु साहित्येषु प्रतिक्रियाः,जगदेवंप्रकारकं भूयादिति स्वप्नः, एवं वर्तत इति वास्तविकीं दृष्टिमवष्टभ्य कृतं विश्लेषणं, विषादो, विनोदश्च एतत् सर्वम् आभाणकत्वधर्मं लम्भितमत्र
जीवनं कया दिशा द्रष्टव्यमित्यत्र दर्शनमेते न कारयन्ति । जीवनं कथं वर्तत इति ज्ञानार्थं वास्तविक जीवनमेवानुभवितव्यम् । आभाणका एते तु जीवनं कया दिशा मया दृष्टमित्यस्य पञ्जीकृतयः ।
नूतनानाम् आभाणकानां जन्मने प्रेरणामेतेष्वाभाणकेषु यच्छत्सु तावता संतोष्टव्यम्। एतेषु केचन गर्जन्ति केचन तर्जयन्ति केचन फूत्कुर्वन्ति, केचन जागरयन्ति केचन ताडयन्ति केचन पाडयन्ति केचन स्फुलिङ्गान् उत्सृजन्ति, केचन च चपेटिकां यच्छन्ति । पठितेष्वेतेषु मनसः कालुष्यं विनश्यतीति केनापि न अमितव्यमिति सुविस्पष्टं निवेदितमधस्तात् ।
सुभाषितेष्विवाभाणकेष्वप्यभिधालक्षणे प्रधाने । व्यञ्जना विरला । शास्त्रेषु पुनर्व्यञ्जनाया एवावसरो नास्ति, किमुत ध्वनेः ? "न सर्वत्र ध्वनिरागिणा भाव्यम्” इति आनन्दवर्धनीयं वचनं श्रुत्वाऽपि पठितेषु सर्वेष्वपि साहित्येषु, किंबहुना - भगवद्गीतायामपि ध्वनिमन्वेषमाणाः नोपदेष्टव्याः । वस्तुतस्त्वत्र लोका एवंप्रकारकदृष्टिवैविध्यवन्त एवेति समाधेयम्। “मुण्डे मुण्डे मतिभेद” इति वर्तत एव कश्चन प्राचीनाभाणकः ! “ध्वनिरहितं किमपि पद्यं रघुवंशे नास्ति” इति कदाचिद् गर्जितवान् कश्चित् सज्जनो मम पुरस्तात्। तादृशसज्जनपितृव्या दिव्यचक्षुष्काः केचन सर्वेवाभाणकेषु व्यञ्जनां पश्येयुश्चेत् किमपि नाश्चर्यं तत्र । किमनेन द्राविडप्राणायामेन ? एष सार::आभाणकेष्वभिधालक्षणयोरेव विजृम्भणम् । तेषु व्यञ्जना नैव समस्तीति प्रतिपादयितुमशक्यत्वेऽपि सा लज्जालुर्मनुष्यदर्शनभीतेव वन्या हरिष्यतीव वैरल्येनात्मानं दर्शयते ।
आभाणक इत्यर्थे कन्नडे वर्तमानो गादेशब्दो गाथाशब्दमूलक इति तावदविवादम् । गाथाशब्दश्च संस्कृतप्राकृतोभयगोचरः । अत्र प्राकृतगत एव गाथाशब्दे कन्नडदोषज्ञानां धिषणापक्षपातः । अधीदंविषयं मामकीनोऽयं पर्यनुयोगप्रकार::
5