________________
मिति भेदस्तु समस्त्येव । वात्सल्यपूर्णानि सुभाषितानि जागरितान् करपल्लवेन परामृशन्तीव। रौद्राः पुनराभाणका: स्वप्नालून कशया प्रहरन्तीव । मातङ्गानां लुठनं महागभीरे जले यत्र महतां यादसां दर्शनम् । परन्तु महिषः कर्दमे लुठति यत्र मालिन्ये मनोहत्य कृमयः प्लवन्ते । जनताजीवनं न केवलं समण्डः क्षीरसागरोऽपि तु सकर्दमा स्यन्दनिकाऽपि । मण्डं पाययति सुभाषितम् । कर्दम लिम्पत्याभाणकः ।
गजानां घण्टापऽपेक्षिते छुछुन्दरीणां छिद्रं पर्याप्तम् । राजमार्गस्य ज्ञानमिव रन्ध्रस्यापि ज्ञानमावश्यकम् । गजाः कन्धरं परिवर्त्य पश्चाद् द्रष्टुं न शक्नुवन्ति गन्धमूषिकास्तु बाढं शक्नुवन्ति ।सुभाषितैरपि कदाचित् सर्वतोदिशं कटाक्षो न निक्षिप्यते । एतादृशं न शक्त्यं नास्त्याभाणकानाम्। ___शान्तिरसः सुभाषितानां जीवनाडी। हास्यवीररौद्ररसा आभाणकानां मर्म। सुभाषितराजसभायाम् आभाणकविदूषकस्य स्थानमक्षतम्। उद्यानेषु मयूरा इव मर्कटा अपि प्रेक्षकान् रञ्जयन्ति!
सुभाषितानि गद्ये पद्ये च कामं गोचरीभवन्ति। संस्कृतेतरासु भाषास्वाभाणका प्रायशो गये। मात्रागणदृष्ट्या वृत्तगन्धिनोऽप्याभाणकाः क्वचिद् दृश्यन्त इत्यन्यदेतत्।
वाक्यबन्धदाढ्यमेवाभाणकानां शरीरम् । यदि सत्यमुच्यते, “यो यच्छ्रद्धः स एव सः" इति भगवद्गीतावाक्यम् (१७.३) आभाणक एव ।
वस्तुतस्तु, केवलं सामान्यं, केवलो वा विशेषः स्वरूपमाभाणकस्य । लक्षणमिति नोक्तं सुभाषितेऽतिव्याप्तिप्रसंगात् । अर्थान्तरन्यासस्त्वाभाणकत्वं निहन्ति, सुभाषितवेषं च लम्भयति।
संस्कृतभाषायाम् आभाणका एव न सन्तीति केषाञ्चित् संस्कृतेतरभारतीयभाषाविदुषां घोषणा तु संस्कृतवाङ्मयापरिज्ञानमूलिका । सत्यपि सुभाषिताभाणकयोभिन्नकक्ष्यावत्त्वे सुभाषितसंग्रहेष्वाभाणका बहवः कथंचित् प्रविष्टा । अपि च शास्त्रग्रन्थेषु काव्यादिषु च आभाणका: सहस्रश उपलभ्यन्त एव । “शान्तिकर्मणि बेतालोदय".
“आमान् पृष्टः कोविदारानाचष्टे", "भक्षितेऽपि लशुने न शान्तो व्याधिः","अहिरेव ह्यहे पादान् विजानाति न संशयः”, “गुरोः पापं शिष्य", "घट्टकुट्यां प्रभातः", "शेषं कोपेन पूरयेत्” इत्यादय आभाणकाः किल प्रथिता एव । वेदान्तदेशिकीयासु कृतिषु न्याया आभाणकाश्च प्रचुरतराः । सोमदेवी नीतिवाक्यामृते वर्तमानेषु वाक्येषु बहून्याभाणकशैल्यैव रचितानि । केषांचन शास्त्रकाराणाम् आभाणकनिर्माणे परमोत्कर्ट कुतूहलं, किमुत साहित्यं रचयितॄणाम् । एतादृशानां सुभाषितभिन्नानां वाक्यानां संकलनं संपादनमध्ययनं च नितरामपेक्ष्यते।
शास्त्रीयेषु न्यायेषु च कदाचिदाभाणकच्छटामिब स्पृशन्ती शैली दृश्यते। तत्र "न्यायः” इति शब्दोल्लेखादेव आभाणकत्वौज्ज्वल्यं नैयून्यमिव गतम् । वक्तव्यानां सर्वेषाम् अंशानां सामासिकपदाकारेण संपुजनमप्यपरोऽत्र हेतुः स्यात् ।
सूक्तित्वेन सुभाषितत्वेन वा परिगण्यमानानां सर्वेषां वाक्यानामुत्कृष्टस्तरीयत्वं वा सज्जनयोग्यस्य पथो दर्शनसामर्थ्य वा नास्त्येव । सुभाषितसंज्ञया प्रसिद्धानि कतिचन वाक्यानि वस्तुतो दुर्भाषितानि। पौण्ड्रकवासुदेवस्य कथाऽत्रानुसंधेया। अश्लीलता, लोकानुपयोगिता, मूर्खगयाऽपकृष्टता इत्यादयः साधारणा धर्मास्तत्र । सुभाषितानां पांसुक्रीडासखा आभाणका अपि कदाचिदेवंशीला एव । सुभाषिताभाणका: सर्वेऽपि सत्यलोके सृष्टास्तस्मान्नीतिघण्टापथं सर्वेभ्यो दर्शयितुं ते प्रभवन्तीति तद्भक्तोत्तमानां पटहः । तथा सति पतञ्जलिर्योगसूत्रे “सुभाषिताभाणकानामध्ययनेन कण्ठेकरणेन च मोक्षप्राप्तिः” इत्यसूत्रयिष्यत्! अनुभवविशेषाणां साधारणीकरणं किल स्वरूपम् उभयेषाम् । तेषां रचयितारः साधारणजनाः सन्तु,पण्डिता वा सन्तु-नैव आकाशात् पतिता देवाः । एते सर्वेऽपि महाबुद्धिमन्त इति महागष्पम् । केचन त्वपक्वबुद्धय इव । आचार्यः प्रणीतेषु दार्शनिकेषु तत्त्वेष्वेव सम्मत्यनहर्हाः समया बहवो वर्तन्ते येषां खण्डनमत्यावश्यकं मन्यन्ते मान्याः । एवं सति,अशिक्षितानां मुखेभ्यः प्रसंगान्निसृता विन्यासवैचित्र्येण चमत्कारमातन्वाना आभाणकीया व्याहाराः सर्वे स्वर्गस्तरीया इति प्रतिपादने किं तात्पर्यमिति तु पटहं वादकास्त एव जानन्ति।