________________
आभाणकजगन्नाथः
आभाणकजगन्नाथ
उपसंहार: १.एवं हेवाकवेगादतनुत जगतां नाथ एनां नवीनां वाणीं सद्दाक्यवेणीमभिनवरसिकश्रेणिवीणायमानाम् । क्वाचिकै पौनरुक्त्यैरनुचितवचनैरप्रबुद्धप्रयोगैर् दूरोत्सार्येयमार्यैरपि ननु नुतये नूतना नव्यधीनाम् ॥ २.उद्यानेषु क्रीडता मकटन क्रोधोद्वेगं नैति पद्मी कदाचित । ध्वाङ्गे रूक्षं ध्वाति, च्छिन्नपक्षो विक्षिप्त सन् किं पिको रारटीति ? ॥ ३.प्रागैवैतादृशीं यद्यपि कृतिमकरोद् ज्ञ४ 'करूर शेष'२ नामा व्याहारैश्चित्तचोरैः सहृदयसुभगैः कन्नडोक्तीरनूद्य । एषोऽस्यां मे विशेषो विशदमनुकृता रीतिराभाणकीया प्रासप्राधान्यमान्या जडबुधमधुरा नव्यया यत् पदव्या ॥ ४.वीक्षन्तां शम्बलत्वं दृढलपितयुजामध्वनामध्वनीना: सामान्ये वा विशेष प्रकृतकृतिगते साध्वदीना कवीना। एतावत्येव तावद् भवति कृतिरियं प्राय एतादृशीति भ्रान्ति कार्या न चार्यैरनवधिरुदयो यद् वचोवैभवानाम् ॥
५.अन्तसत्त्वप्रथिम्ना जगदनुभवसत्पाकभूम्ना च वाणीप्राणैराभाणकर्ये लपितमनुदिनं पूरयन्ति प्रभूतः। तेषां भाषैव भाषा न पुनरनुकृतप्राच्यकाव्यप्रसिद्धद्विवोत्कृष्टोक्तिभाजां बहुपदनिबिडा भारतीभूरिपीडा ॥ ६.शोभोदयाय भवति कदाचित् क्षोभो, लोके, जीवनमेतत् । लोभादिदोषकलुषान् मनुजानाभाणकवान' क्षालयति २ ॥ ७.वामं विपुलविलासं कामं कलयतु हासम् । गोभावुक हृदयाब्जेष्वाभाणकमिहिरश्री॥ ८.हसन्तु जगतीतले हितमणद्भिराभाणकै? स्फुरद्भिरखिला जनाः सहजसारसारस्वतः । अदभ्ररुधिरामिषार-करालकर्मक्रमश्वदष्टकुणपाननस्मितविलासविस्तारकै ॥ ९. भक्ष्याणि नव्यानि पुराणपात्रे स्वाद्यानि लोका सपदि स्वदन्ताम् । १.आभाणक-वा-आभाणकरूपं जलम्। 'आप स्वी भूम्नि वाारि' इत्यमरः । २.गन्धाख्या छन्दोजातिरियम्। 'स्कन्धके' (आर्यागीत्या तत्सहोदरे कन्नडीये 'कन्दे' च प्रथमतृतीययोः पादयोस्वयो(३)गणा, द्वितीयचतुर्थयोस्तु पञ्च(५) गणा। मया तु पूर्वार्धे ४+४,उत्तरार्धेऽपि४+४ एवं गणयोजना कृता। स्कन्धककन्दयो स्मारिका 'गन्धे ति संज्ञा च दत्ता। ३.वाम-सुन्दरम्। ४.गोभावुका:-गो भाषाया: भावुका -सहृदया। ५.अत्रत्यं वृत्तं 'तनुगानामक मयैव सृष्टम्।तनगग इति तल्लक्षणम्। ६.अणद्भिः-कथयद्भिः । अण शब्दे भ्वादि। ७.सहजमथ च सारम्-उत्कृष्टं सारस्वत तै । आभाणकविशेषणमिदम्। ८.अदभं-बहु । अधरः अतिभक्षणशीलस्तस्मादेव करालो भयङ्करः कर्मक्रमो यस्य । इत्यंभूतलक्षणेन शुनाऽपि दष्टस्य शवस्वानने स्मितस्य विलास विस्तारयद्भिः।
१.पनी-गजः। २.दिवङ्गतेन विदुषा करूशेषाचार्येण एतादृशी प्रासरहिता कन्नडाभाणकानाम् अनुवादमात्रा काचिद् रचना “लौकिकगाथाचतुश्शती"नाम्नी रचितपूर्वा महाराजसंस्कृतमहापाठशालापत्रिकायां प्रकाशितपूर्वा च । ३.शम्बलत्वं-पाथेयत्वम्। 'पाथेयं शम्बलं समे' इत्यभिधानचिन्तामणि । ४.कवीना-कवीनाम् इना-सूर्याध,कवीन्द्रा इति यावत्।