________________
आभाणकजगन्नाथ
आभाणकजगन्नाथ
१९. दारुणस्य भवबुन्दस्य ध्यानं दृढो द्रापिः । २०. देशना दूष्यते, वर्तनं भूष्यते। २१. परमात्मा प्रवचनात् पलायते। २२. बहिः साधिते त्वन्तः शोधितम्। २३. भज तत्त्वं त्वं कालाधारं
सृजनस्थितिलयकालातीतम् । २४. रिक्ते पात्रे पीयूषं पूर्यते। २५. लप्स्यते लभ्यते लब्धं याहि याहि च याहि च। २६. वारं वारं निमन्जन्ति पारावारे धुरन्धराः। २७. श्रवणे जाते श्राणं ध्यानम्। २८. सर्वत्यागे पर्वाध्यात्मिकम्। २९. सारं साधनं, केवलं बोधनं तु केवलं बाधनम् । ३०. स्वयं सरेति स्वरन् आचार्य, सदा शृण्विति
गृणन्ननार्य। ३१. हीना प्रवचनेन दीनाः संपत्त्या मीनायन्ते __ दर्शनोदधौ । ... १३१० ९६.१९.भवबुन्दस्य-संसाराख्यस्य बाणस्य । बुन्दशब्दो वैदिकः ।द्रापि: कवचम् । अयमपि वैदिकः शब्दः ।९६.२०.देशना-उपदेशः । ९६.२६.वारं वारं-पुनापुन:। पारावारे-समुद्र,लक्षणया मननाये।धुरंधरा:-विषयज्ञानरूपं कर्तव्यभारं वहमाना। केवलमल्यकालिकेन साधनेन गुरवो योगिसंज्ञाधारिणो वा न बुभूषन्ति वास्तविकाः साधकाः परन्तु ते गभीरं यथा स्यात्तथा पीना पुन्येन ध्यानं कुर्वन्ति ।९६.२७.श्रवणे-ओङ्कारथवणे। थाणपक्वं, सिद्धमिति यावत् । ९६.२९.सारं-उत्कृष्टम् । इदमर्थे शब्दोऽयं नपुंसकः।९६.३०.सर-गच्छ । गृणन्-कथयन् ।गू शब्दे क्रयादि।
९७.आशिष १. कण्टकेषु सुजन क्रुध्यात्।
__ कर्मनिष्ठो धर्म कीर्त्यात्। ३. कविः कवित्वेन क्रुश्यात्।
चारुसिद्धिश्चकास्यात्। जगति जना जागर्यासुः।
ज्ञानज्योतिर्खल्यात्। ७. दण्ड्येषु धर्मो न दयिषीष्ट। ८. भव्यबुद्धिराभाणकान् भण्यात् । ९. भुवनेषु भद्रं भूयात् । १०. वाग्मिनो विशेषज्ञानिनो भूयासुः। ११. विश्वस्मिन् विज्ञानं विजृम्भिषीष्ट । १२. संस्कृतम् इति शब्दस्य संस्कृतम् इत्येवार्थो भूयात्। १३. सर्वसहा सर्वासहा न भूयात्। [१३२२
९७.११.सर्वसहा-भूमि।