________________
आभाणकजगन्नाथ
आभाणकजगन्नाथ
ॐurs
३. दैहिका क्लेशा योगेन दूरीभवन्तीति दृष्टिन्यूनस्य
दीर्घ भाषणम्। ध्यात्वाऽऽत्मानं धुनुते दैन्यम्। पद्मासनं पक्वं सद्मरहितानाम् ।
पातञ्जलेन योगेन स्फीतं तमो हन्ति। ७. प्राणायाम चिकीर्षुः प्राणसंकटं व्यतानीत्।
बकासनाभ्यासेऽपि बकबुद्धिर्न बाधिता।
वीक्षणे कृतकष्टानां तुष्टिरष्टासु सिद्धिषु। १०. शवासनं कृत्वा भवातई भनक्ति। ११. शिवयोगी कालेन भवरोगी बभूव । १२. स्वयं तङ्कति,सहस्रं संसारिणः शङ्कापङ्कादुद्दिधीर्षति। [१२७९]
९६.दर्शनम् १. अध्यात्ममार्गः सुध्यानयोगः । २. अध्यात्मे मेधिरा एव मेदिनीधराः । ३. अहमः शोधः सर्वविबोधः। ९५.३.अत्रापि पूर्वतनाभाणकोक्त एवाभिप्राय: ।९५.४.धुनुते-कम्पयति, लक्षणया प्रभावहीनं करोति,निवारयति वा।९५.५. पद्मासनं-लक्षणया योगाभ्यास: । पक्वं-सिद्धिजनकम् । सम-लक्षणया लौकिकी चिन्ता। ९५.६.स्फीतं-वृद्धम् । स्फायी वृद्धौ। स्फायः स्फी निष्ठायाम (६.१.२६) इति स्फयादेशः।९५.९वीक्षणे-आत्मदर्शने ।कृतकप्टानां-तप आचरताम् । ९५.१२.धनार्थं गुरुवेषं धरतां परामर्श कृतोऽत्र । ९६.२. मेधिरा-मेधावन्तः । वैदिकोऽयं शब्दः।
४. अहमेव ममापिः। ५. अहमो मुक्तिः शुद्धा युक्तिः ।
ऊढानां सङ्घ रूढाध्यात्मनां किं कृत्यम् ? ७. एकान्ते शोकान्तः। ८. एको मार्गो मृग्यमेकं तुरीयम्। ९. एतावदेवेदमिति ज्ञाते पातालं प्रापय
प्रमाणशास्त्राणि। १०. कन्यां गृहीत्वा पन्थानं गच्छ। ११. गिरा गुरोनिसरति मार्ग मार्गयेति। १२. गुरुभावं प्राप्तुम् उरुगाये पथि पद्यस्व। १३. ग्रन्थानध्वीष्व, पन्थानं तु स्वयमन्विष्य। १४. जुनात्यात्मा पुनात्यात्मा। १५. तनुमनसी त्यजन्ति तविषीभिर्मिलन्ति। १६. तमो याति, ज्ञानमेति। १७. तरङ्गा भवन्ति, त्रिरङ्गाः स्वनन्ति । १८. दर्शनं दाशुषे दीर्घदण्ड प्रणाम ।
९६.४.आपि:-बन्धुः। वैदिकोऽयं शब्दः। ९६.५.अहम-अस्मद्+ङसि । ९६.१२.उरुगाये-श्रेष्ठ स्तूयमाने। प्रशस्त इति यावत्। वैदिकोऽयं शब्दः। पद्यस्व-गच्छ । पद गतौ। ९६.१४. जुनाति-प्रेरयति । वैदिकोऽयं शब्दः । ९६.१५.तविषीभि:-बलै । वैदिकोऽयं शब्द।९६.१७.त्रिरङ्गासत्त्व-रजस्-तम आख्या: । ९६.१८. दर्शनम्-तत्त्वज्ञानम् । दाशुषे-दत्तवत्ते, लक्षणया ददानाय । वैदिकोऽयं शब्दः।