________________
आभाणकजगन्नाथ:
आभाणकजगन्नाथ
परिशिष्टविभाग
अर्थान् पुराणानभिनव्यशब्दे रस्यान् रसज्ञा रसयन्तु मन्दम् ॥ १०.संभाषणेषु कवितासु च सज्जनानाम् आभाणकप्रचुरवाक्यगण प्रयुक्तः। सद्वोधनेन भुवि भावुककर्णपालीपीयूषसेकसुभगं कुशलं कृषीष्ट ॥ ११.सप्रासदाानि कलेवराणि प्राज्ञोपदेशा अपि जीवनाड्यः। येषां च ये प्राणकरा गिराणाम् आभाणकास्ते जनतां जुषन्तु ॥ १२.स्वप्रयत्नाभिधो देवः स्वाचार्यो यस्य नापर। जगन्नाथेन तेनेयं तेने तनुतरा कृतिः ॥
९४