________________
शास्त्र- स्वाध्याय का प्रारम्भिक मंगलाचरण
ध्याय
ओंकारं विन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओंकाराय नमो नमः ||१|| अविरलशब्दघनौघप्रक्षालितसकलभूतलमलकलंका । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान् ॥२॥ अज्ञानतिमिरान्धानां ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।३।। ।। श्री परमगुरवे नमः, परम्पराचार्यगुरवे नमः ।। सकलकलुषविध्वंसकं, श्रेयसां परिवर्धकं, धर्मसम्बन्धकं, भव्यजीवमनःप्रतिबोधकारकं, पुण्यप्रकाशकं पापप्रणाशकमिदं शास्त्रं श्री उपदेशसिद्धांतरत्नमालानामधेयं,
मंगलाचरण
7 प्रारम्भिक
अस्य मूलग्रंथकर्तारः श्री सर्वज्ञदेवाः तदुत्तरग्रंथकर्तारः श्री गणधरदेवाः प्रतिगणधरदेवास्तेषां वचनानुसारमासाद्य श्रीमद् नेमिचन्द भंडारीविरचितं इदं शास्त्रं श्रोतारः सावधानतया श्रृण्वन्तु ।। मंगलं भगवान वीरो, मंगलं गौतमो गणी ।
मंगलं कुन्दकुन्दार्यो जैन धर्मोऽस्तु मंगलम् ।।१।। सर्वमंगलमांगल्यं सर्वकल्याणकारकं ।
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ।।२।।
70