________________
तदष्टभागोऽपरा ।।
लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ।।
अजीवकाया धर्माधर्माकाशपुद्गलाः ।।
द्रव्याणि ।।
जीवाश्च ।।
नित्यावस्थितान्यरूपाणि ।।
रूपिणः पुद्गलाः।।
आकाशादेकद्रव्याणि ।।
इति चतुर्थोऽध्यायः।।
निष्क्रियाणि च ||
असंख्योयाः प्रदेशा धर्माधर्मेकजीवानाम् ।।
आकाशस्यानन्ताः ।।
संख्येयासंख्येयाश्च पुद्गलानाम्।।
नाणोः ।।
लोकाकाशेऽवगाहः।।
धर्माधर्मयोः कृस्ने।।
एकप्रदेशादिषु भाज्यः पुद्गलानाम्।।
असंख्येयभागादिषु जीवानाम्।।
प्रदेशसंहार विसर्पाभ्या प्रदीपवत् ।।
गतिस्थ्त्युपग्रहौ धर्माधर्मयोरुपकारः ।।
आकाशस्यावगाहः ।।
शरीरवाङ्मनः प्राणापानाः पुद्गलनानाम् ।।
सुखदुःखजीवितमरणोपग्रहाश्च ।।