________________
उपर्युपरि।। सौधर्मशानसानत्कुमार माहेन्द्र ब्रह्मब्रह्मोत्तर लान्तवकापिष्ठ शुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणयोरारणाच्युतयोर्नवसुप्रैवेयकेषु विजय वैजयन्त ययन्तापराजितेषु सर्वार्थसिद्धौ च।। स्थिति प्रभावसुखयुतलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः।। गतिशरीरपरिग्रहाभिमानतो हीनाः।। पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु।। प्राग्ग्रैवेयकेभ्यः कल्पाः।। ब्रह्मलोकालया लौकान्तिकाः।। सारस्वतादित्य व ह्रयरुणगर्दतोयुषिताव्यावाधारिष्टाश्च।। विजयादिषु विचरमाः।।
औपपादिक मनुष्येभ्यः शेषास्तिर्यग्योनयः।। स्थितिसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्ट हीनमिताः।। सौधर्मेशालयोः सागरोपमेऽधिके।। सानत्कुमार माहेन्द्रयो सप्त।। त्रिसप्तनवैकादशत्रयोदश पञ्चदशभिरधिकानि तु।। आरणाच्युततादूर्ध्वमेकैकेननवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च।। अपरापल्योपममधिकम्।। परतः परतः पूर्वा पूर्वाऽनन्तरा।। नारकाणां च द्वितीयादिषु।। दशवर्षज्ञसहस्राणि प्रथमायाम।। भवनेषु च।।
व्यन्तराणां च।।
परापल्योपममधिकम।।
ज्योतिष्कणां च।।