SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ww भाष्यम् उ० १ सू० ३४ यवधावितस्य पुनरागमने विधिः ४३ स तत्र यदि कस्यापि नवदीक्षितत्य छेदोपस्थापनीयसम्बधी कालः समाप्तो भवेत्तदा तल्लिङ्गस्थितस्यैव निग्रन्था(नियंठा)पेक्षया, तथा स्थानाङ्गकथितचतुर्भद्यपेक्षया च त नवदीक्षितं चारित्रे स्थापयितुं कल्पते इति । अत्रेदे तात्पर्यम्-पार्थस्थादिससक्तपर्यन्तानि पञ्च सूत्राणि भावलिङ्गपरित्यागविषयकाणि ततस्तत्र प्रायश्चित्तदानमभिहितम्, इ६ परपापण्डप्रतिमासूत्रं तु द्रव्यलिङ्गपरित्यागविषयकमतोऽत्रालोचनां मुक्त्वा नान्यत् प्रायश्चितं प्रतिपादितम् ॥ सू०३३ ॥ पूर्व भावलिङ्गद्रव्यलिङ्गपरित्यागे विधि. प्रोक्तः, साम्प्रतं द्रव्यभावोभयलिङ्ग परित्यज्य गतस्य तत्रैव गणे पुनरागन्तुमिच्छतो विधिमाह-'भिक्खू च' इत्यादि । सूत्रम्-भिक्खू व गणाओ अवकम्म ओहावेज्जा, से य इच्छेज्जा दोच्चपि तमेव गणं उपसंपज्जित्ता ण विहरित्तए, नत्थि णं तस्स तप्पत्तिए केइ छेए वा परिहारे वा नन्नत्थ एगाए सेहोवट्ठावणियाए ॥ सू० ३४ ॥ छाया-भिक्षुश्च गणादवक्रम्याऽवधावेत् स चेच्छेत् द्वितीयाप तमेवगणमुपसंपद्य खलु विहत्तं नास्ति खलु तस्य तत्प्रत्ययिकः कश्चित् छेदो वा परिहारो वा नान्यत्र एकया शैक्षोपस्थापनिकया ।। सू०३४ ।। भाष्यम् -'भिक्खू य' इति । 'भिक्खू य' यः कश्चिद् भिक्षुः 'गणाओ अवकम्म' गणादपक्रम्य गणात् स्वकीयगच्छात् अपक्रम्य निर्गत्य 'ओहावेजना' अवधावेत् पञ्चमहाव्रतपर्यायात पराडमुखो मूत्वा गृहस्थपर्यायं प्रति गच्छेदित्यर्थः ‘से य इच्छेज्जा' स चेच्छेत् यः गृहस्थपर्यायमाश्रितः स पुनरपि साधूना सदुपदेशात् भाग्यवशाच्च भावपरावर्तनेन इच्छेत् 'दोच्चंपि तमेव गगं' द्वितीयमपि वारं तमेव गणम् 'उपसपज्जित्ता णं विदरित्तए' उपसंपद्य स्वीकृन्य विहत्तुं पुनः तत्रैव गणेदीक्षां गृहीत्वा संयमयात्रां निर्वाहयितुमिच्छेत्, पुनरागमनप्रश्ने कोदश प्रायश्चित्तं दातव्यम् ? न वा दातव्यम् ? इत्याह--'णत्थि णं तस्स' नास्ति. खल्ल तस्य 'तप्पत्तइए' तत्प्रत्ययिकः संयमत्यागनिमित्तकः 'केइ छेए वा परिहारे वा' कश्चित् छेदो वा परिहारो वा, न भवति खलु तस्य कश्चित् छेदनामकं परिहारनामकं वा प्रायश्चितं, तस्मिन् छेदपरिहारप्रायश्चित्तस्य कारणाभावात् । तहि किं कर्त्तव्यम् ? इत्याह-'णण्णत्थ एगाए सेहोवढावणियाए' नान्यत्र एकया शैक्षोपस्थापनिकया तस्य शैक्षोपस्थापनिका विहाय नान्यत् किमपि प्रायश्चित्त दात्तव्य स्यात् , मूलत एव तस्मै पुनर्नुतनामेव दीक्षां दद्यात् , तस्य सर्वथा गृहस्थपर्यायस्वीकृतत्वादिति ।। सू० ३४ ॥ ___ पूर्व पार्श्वस्थादिप्रतिमाविषये आलोचनाविधिः प्रोक्त., साम्प्रत भिक्षणा अकृत्यस्थाने सेविते तस्यालोचनादिकं कस्य पार्श्वे कर्तव्यम् ? इति तद्विधिमाह-'भिक्खू य' इत्यादि ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy