________________
भाष्यम् उ० १ सू० २४
परिहारकल्पस्थितस्य प्रामान्तरगमनविधिः ३५
निक्षेपणीयमिति, तत्र यदि आचार्याः स्मरेयुः भिक्षुर्वा स्मारयति तदा तत्तपो निक्षिप्य गच्छति, यदि द्वयोरपि विस्मृतं भवेत् तदा 'कप्पड़ से निव्विसमाणस्स' कल्पते तस्य निर्विशमानस्य तपो वहमानस्यैव 'एगराइयाए पडिमा ए' एकरात्रिक्या प्रतिमया एकरात्रिका भिग्रहेण शेषं सर्व पूर्वसूत्रवदेव व्याख्येम् ॥ सू० २३ ॥
सूत्रम् - परिहारकपट्ठिए भिक्खू वहिया थेराणं वेयावडियाए गच्छेज्जा, थेरा य से सरेज्जा वा नो सरेज्जा वा कप्पड़ से निव्विसमाणस्स एगराइयाए पडिमाए जं णं जं ञं दिसं अन्ने साहम्मिया विहरंति, तं णं तं णं दिसं उवलित्तए, नो से कप्पइ तत्थ विहारवत्तियं वत्थए, कप्पड़ से तत्थ कारणवत्तियं वत्थए, तंसि च णं कारणंसि निडियंसि परोवएज्जा साहि अज्जो एगरायं वा दुरायं वा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई से संतरा छेए वा परिहारे वा ॥ सू० २४ ॥
छाया - परिहारकल्प स्थितो भिक्षुवहिः स्थविराणां वैयावृत्याय गच्छेत् स्थवि - राश्च स्मरेयुर्वा नो स्मरेयुर्वा कल्पते तस्य निर्विशमानस्य एकरात्रिक्या प्रतिमया यां खलु यां खलु दिशमन्ये साधर्मिका विहरन्ति तां खलु तां खलु दिशमुपलातुम्, नो तस्य कल्पते तत्र विहारप्रत्ययिकं वस्तुम्, कल्पते तस्य तत्र कारणप्रत्ययिकं वस्तुम्, तस्मिंश्च खलु कारणे निष्ठिते परो वदेत् वस आर्य ! एकरात्रं वा द्विरात्रं वा, एवं तस्य कल्पये एकरात्रं वा द्विरात्रं वा वस्तुम्, नो तस्य कल्पते परमेकरात्राद्वा द्विरात्राद्वा वस्तुम्, यत्र तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्य स्वान्तरात् छेदो वा परिहारो वा ॥ सू० २४ ॥
-
भाष्यम् – 'परिहारक पहिए भिक्खू' इति । 'परिहारकप्पट्ठिए भिक्खू' परिहारकलस्थितो भिक्षुः 'वहिया' बहिर्वाह नगरादौ 'थेराग' स्थविराणामाचार्यादीनां 'वेयावडियाए' वैयावृत्त्याय 'गच्छेज्जा' गच्छेत् 'थेरा य' स्थविराश्च 'से सरेज्जा वा नो सरेज्जा वा' तस्य पारिहारिकस्य तपः स्मरेयुर्दा कार्यव्याक्षेपान्नो स्मरेयुर्वा यथा एषः परिहारतपोवाहक इति स्मरणं कुर्युः नो वा कुर्युः तदा कल्पते तस्य निर्विशमानस्य तपो वहतः सतः, इत्यादि सर्वं पूर्ववदेव व्याख्येयम् । अत्रायं भावः - प्रथमसूत्रे वहनं कथितं तत्तप आचार्यो देशतो वाहयेदपि सर्वतो वा वाहयेदपि १ । द्वितीयसूत्रे स्थापन भविष्यत्कालार्थं तदपि देशतः सर्वतो वा स्थापयेदपि २ । तृतीयसूत्रे - त्यागः, तदपि देशतः सर्वतो वा त्याजयेदप्याचार्य इति ३ । तत्र देशतो वहनादि कथं स्यात्तत्राह - परिहारतपः प्रायः सर्व व्यूढं स्तोकमेवावशिष्टम्, अत्रान्तरे बहिर्गमनप्रयोजनमुपस्थितं भवेत्तदाऽऽचार्यो वदेत् — मुश्चाधिकृतं परिहारतपः यतः साम्प्रतमिदं गमनकार्यमुपस्थितम् । तत्र यदि स समर्थो भवेत्तदा प्राह-न क्षिपामि