________________
व्यवहारसूत्र
प्रसङ्गः, तेन चारित्रं कलुषितं भवति, उत्तरगुणातिचारा हि मूलगुणानपि विराधयन्ति, मूलोत्तरगुणानां परस्परं संबद्धत्वात् । यदि मूलगुणविषयं पापं सेवितं भवेत्तदा चारित्रमेव समूलं विनश्यति । विशेषस्त्वेतावानेव यत् मूलगुणनाशे तत्कालमेव साधोश्चारित्रपर्वतादवपातो भवेत् , उत्तरगुणनाशे तु कालक्रमेण चरित्रनाशः संजायते, उक्तञ्च
"अग्गघाओ इणे मूलं, मूलघाओ य अग्गयं ।
मृलोत्तरगुणे नेव, विराहिज्जा कयाइ वि" ॥१॥ छाया-अग्रघातो मूलं हन्यात् , मूलघातश्च अग्रकम् ।
(तस्मात् ) मूलोत्तरगुणान् नैव विराधयेत् कदाचिदपि ॥१॥ अत्र तालो दृष्टान्तः-तालवृक्षस्याऽग्रे सूच्या घातो मूलं हन्ति । मूलघातस्तु सर्वं वृक्षमेव ___ हन्ति अग्रभागस्य का कथा इति । अत्र विषमक्षिकुपथ्यसेविनोईयोदृष्टान्ते गाथामाह
"एगो य विसं भक्खइ, वीओ सेवइ कुपत्थमाहारं ।
सज्जो मरइ य पढमो, अवरो कालक्कमेणेव” ॥१॥ छाया-एकश्च विषं भक्षति, द्वितीयः सेवते कुपथ्यमाहारम् ।
सद्यो नियते प्रथमः, अपरः कालक्रमेणैव ॥१॥ तथाहि--एकेन केनचित् पुरुषेण प्रच्छन्न विषं भक्षितम् , वैद्येन पृष्टम्-किं त्वया भक्षितं सद्यः सत्यं वद येन तदुपशामकमौषधं दत्त्वा त्वां प्रगुणीकरोमीति । तेन 'न किमपि भक्षितम्' इत्युक्त्वा विषभक्षणं संगोपितं वैद्याय न प्रकाशितम् । ततः स तदोषेण तत्कालमेव जीविताद् ध्वस्तोऽभवत् । द्वितीयः पुनः प्रच्छन्नं कुपथ्यं सेवते तेन प्रतिदिनं तस्य शरीरे रोगो वर्धितुमारब्धः, वैयेन पृष्टम्-किं त्वं कुपथ्यं सेवसे येन तव शरीरे रोगः प्रतिदिनं वृद्धिमेति, सत्यं यथावस्थितं प्रकाशय येन त्वां प्रगुणीकरोमि । तेन मायां कृत्वा वैद्याय न किमपि प्रकाशितम् , क्रमेण तस्य स रोगः असाध्यतां प्राप्तः, ततः कालक्रमेण स मृतवानिति । एवं मूलोत्तरगुणदोषसेविनाऽपि गुरुसमीपे मालोचनाकाले गुरुणा पृष्टे सति मायाचरणं न कर्त्तव्यं, यथावस्थित सर्व वदेदिति । शिप्यः पृच्छति भदन्त ! कीदृशो भिक्षुरालोचना) भवितुमर्हति ? गुरुराह
"जाइकुलाईदसगुण, जुत्तो आलोयणारिहो सीसो । ___ आलोयइ सो सम्मं, भीरुत्तणओ य पावस्स" ॥१॥ इति । छाया-जातिकुलादिदशगुणयुक्त आलोचनाहः शिष्यः ।
आलोचयति सम्यक् भीरुत्वाच्च पापस्य ॥१॥