________________
११२
वृहत्कल्पसूत्रे
"
अशननिमित्तं पानाय वा पानीयनिमित्तं भक्तपानार्थमित्यर्थः निष्क्रमितुं निर्गन्तुम् उपाश्रयाद् वहिनिस्तु वा गृहस्थगृहान्तः प्रवेशं कर्तु नो कल्पते इति पूर्वेण सम्बन्धः । एवम् बहिः उपाश्रयाद् बहिः प्रदेशे विचारभूमिं संज्ञाभूमिं वा विहारभूमि - स्वाध्यायभूमिं वा निष्क्रमितुम् उपाश्रयाद् वहिः संज्ञार्थं गन्तुम्, प्रवेष्टुं वा उपाश्रयान्तः प्रवेशं कर्तुम्, तथा ग्रामानुग्रामं होतुं विहर्त्तुम्, एवं गणात् स्वगच्छात् गणम् अन्यं गच्छं संक्रमितुं संक्रमणं कर्तुं नो कल्पते इति पूर्वेण सम्बन्धः । तथा वर्षावासं चातुर्मासार्थं वस्तुं नो कल्पते । तर्हि किं कर्त्तव्यमित्याह-' जत्थेव ' इत्यादि यत्रैव यस्मिन् स्थाने आत्मनः स्वस्य आचार्यम् उपाध्यायम् कीदृशमित्याह - बहुश्रुतं - छेदशास्त्रनिपुणम्, बह्नागमम् अर्थतोऽनेकागमाभिज्ञ पश्येत् तस्य अन्तिके समीपे आलोचयेत् स्वापरार्धं वचसा प्रकाशयेत् प्रतिक्रामेत्, स्वापराधविषये मिथ्यादुष्कृतं दद्यात्, निन्द्यात्, आत्मसाक्षिकता स्वापराधस्य निन्दां कुर्यात्, गर्हेत गुरुसाक्षिकतया जुगुप्सेत् । निन्दनं गर्हणं च वास्तविकं तदा भवेद् यदा तस्य पुनः करणतो निवर्त्तेत, भत आह - 'विउट्टेज्जा' इति व्यावर्त्तेत तादृशापराधान्निवृत्तो भवेत् । निवृत्तावपि कृतपापात्तदा मुच्येत यदा आत्मनो विशोधिर्भवेत् अत आह- 'विसोहिज्जा' इति विशोधयेत् आत्मानं पापमलप्रक्षालनेन निर्मलं कुर्यात् । विशुद्धिश्च पुनरकरणतया संभवति अऩ आह-‘अकरणयाए अब्भुट्टेज्जा' इति, अकरणतया पुनरकरणप्रतिज्ञया अभ्युत्तिष्ठेत् अभ्युत्थितो भवेत् समुद्यतः स्यात्, पुनरकरणतया अभ्युत्थानेऽपि विशुद्धिस्तु प्रायश्चित्ताभ्युपगमेनैव भवतीत्यतः आह- 'अहारिहं' इति यथार्हं यथायोग्यम् अपराधानुसारं तपःकर्म अनशनादिरूपं प्रायश्चित्तंछेदादिक प्रतिपद्यते - स्वीकुर्यात् । ' से य' इति तदपि च प्रायश्चित्तं श्रतेन श्रुतमधिकृत्य श्रुतानुसारेण यदि प्रस्थापितं समारोपितं दत्तं भवेत्तदा आदातव्यं ग्रहीतव्यं स्यात ग्राह्यं भवेदित्यर्थः, 'से य' तच्च यदि श्रुतेन श्रुतानुसारेण नो प्रस्थापितं न दत्तं भवेत्तदा नो आदातव्यं स्यात् ग्राह्यं न भवेत् । 'से य' इति -अथ च स आलोचको यदि श्रुतेन श्रुतानुसारेण प्रस्थाप्यमानं दीयमानमपि तत् तपःकर्म प्रायश्चितं नो आददाति-न स्वीकरोति न प्रतिपद्यते तदा स आलोचकः साधुः निर्यूहितव्यः 'अन्यत्र गत्वा शोधि कुरुष्व' इति कथयित्वा स प्रतिषेधनीयः स्वसमीपात् पृथक् करणीयः स्यात् भवेदिति ॥ सू० ३० ॥
पूर्वमधिकरणकर्त्तः प्रायश्चित्तप्रकारः प्रदर्शितः, तच्च प्रायश्चितं समर्थस्य प्रथमसंहननादि गुणयुक्तस्य परिहारतपोरूपमेव प्रायश्चित्तं दातव्यं, न तु शुद्धतपोरूपमिति परिहारतपोवहमानस्य का मर्यादा ? का च सामाचारी ? इति जिज्ञासायां परिहारतपोवाहकस्य विधिमाह - ' परिहार - कप्पट्ठियस्स णं' इत्यादि ।
सूत्रम् - परिहारकप्पट्ठियस्स णं भिक्खुस्स कप्पर आयरिय - उवज्झाएणं तदिवसं एगगिहंसि पिंडवायं दवावित्तए, तेण परं णो से कप्पर असणं वा पाणं वा