SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ धूर्णिभाष्यावचूरी उ० ४ सू० २४-२५ संभोगार्थमन्यगण गमनविधिः १०५ अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, नो से कप्पर अणापुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गणं संभोगपडियाए उनसंपज्जि - ताणं विहरित्तए, कप्पड़ से आपुच्छित्ता आयरियं वा जात्र गणावच्छेयगं वा अण्ण गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ roj गणं संभोगपडियाए उवसंपज्जित्ता णं विहरितए, ते य से नो वियरेज्जा एवं सेनो कप्प अण्णं गणं संभोगपडियाए उवसंपज्जित्ताणं विहरितए, जत्थुत्तरियं धम्मविणयं भेज्जावं से कप अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, जत्थुत्तरियं धम्मविणयं नो लभेज्जा एवं से नो कप्पर अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए । सू० २४ ॥ छाया - गणावच्छेदकश्च गणाद् अपक्रम्य इच्छेत् अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् नो तस्य कल्पते गणावच्छेदकत्त्वम् अनिक्षिप्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, कल्पते तस्य गणावच्छेदकत्वं निक्षिप्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् नो तस्य कल्पते अनापृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम्, कल्पते तस्य आपृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तुम्, ते च तस्य वितरेयु. एवं तस्य कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम्, यत्रौत्तरिकं धर्मविनयं लभेत एवं तस्य कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम्, यत्रौत्तरिकं धर्मविनयं नो लमेत एवं तस्य नो कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्म विहर्तुम् ॥ सू० ॥ २४ ॥ चूर्णी- 'गणावच्छेयए य' इति । गणावच्छेदकश्च गणात् स्वगणात् अपक्रम्य निर्गत्य इच्छेत् अन्यं गणं संभोगप्रत्ययेन संभोगो द्वादशविधस्तन्निमित्तम् उपसपद्य विहतु तदा तस्य गणावच्छेदकत्वं स्वपदवीरूपम् अनिक्षिप्य आचार्याद्युपरि अनारोप्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहत्तुं नो कल्पते । कथं कल्पते ! इत्याह-स्वस्य गणावच्छेदकत्वं निक्षिप्य अन्यस्मै दत्त्वा अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तु कल्पते । पुनश्च आचार्यादिकमनापृच्छ्य अन्यं गणं संभोग प्रत्ययेन उपसंपद्य विहतु नो कल्पते किन्तु आचार्यादिकमापृच्छय अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तु कल्पते । तत्र च यदि ते आचार्यादयः अन्यगणसंक्रमणस्याज्ञां वितरेयुः -- दद्युस्तदा तस्य अन्यं गणं सभोगप्रत्ययेन उपसंपद्य विहर्तुं कल्पते, यदि ते अन्यगणगमनाज्ञां न वितरेयुस्तदा तस्य नो कल्पते अन्यं गणं संभोगप्रत्ययेन उपसपद्य विहम् । तत्रापि यदि यत्र औत्तरिकं स्वगणापेक्षया प्रधानं धर्मविनयं स्मारणावारणादिरूपं लभेत एवम् - अनेन कारणेन १४
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy