________________
पूर्णि-भाष्याऽवचूरी उ० ४ सू० २३ भिक्षोः संभोगार्थमन्यगणगमनविधिः ११०३ -अन्यं गणं संभोगप्रत्ययेन उपसंपद्य-विहर्तुम्, ते च तस्य वितरेयुः एवं तस्य कल्पते अन्य गणं संभोगप्रत्ययेन उपर्सेपद्य विहर्त्तम् , ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यं गण संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, यत्रौत्तरित धर्मविनय, लमेत एवं तस्य कल्पते अन्य गणं संभोगप्रत्ययेन उपसंपद्य 'विहर्त्तम् , यत्रौत्तरिक धर्मविनये नो लमेत .एव.तस्य नो. कल्पते अन्यं गण संभोगप्रत्ययेन उपसंपद्य विहत्तुम् ॥ सू० ॥२३॥
चूर्णी 'भिक्खू य' इति । भिक्षुश्च गणात् स्वगणात् अपक्रम्य निस्सृत्य संभोगप्रत्ययेन'संभोगः-एकमण्डल्यां भोजनादिरूपः, 'अथवा समवायागोक्तो द्वादशविध· · संभोगस्तत्प्रत्ययेन तन्निमित्तेन तदर्थमित्यर्थः अन्य गणमुपसंपद्य विहर्तुम् अवस्थातुम् इच्छेत् तदा तस्य पूर्ववेदेव
आचार्यादिकमनापृच्छ्य नो कल्पते, आपृच्छय 'कल्पते । यदि ते गणान्तरगमनस्याज्ञा । वितरेयुः । एवम्-अनेनाज्ञाग्रहणविधिना तस्य गणान्तरगमनं 'कल्पते, यदि ते गणान्तरगमने
आज्ञां नो वितरेयुस्तदा नो कल्पते - गणान्तरगमनम्, इति सूत्राशयः । भिक्षोः गणान्तरगमने कारणमाह-'जत्युत्तारिय' इत्यादि, 'जत्थ' इति यत्र यस्मिन् गणे । गन्तुमिच्छति तत्र यदि स
औत्तरिकम्-उच्चतरं प्रधानं धर्मविनयं लभेत प्राप्नुयात् एतादृशो गणो यदि भवेत् तदा तस्य तमन्यं । गणं संभोगप्रत्ययेन उपसंपद्य विहर्तुम् अवस्थातुं कल्पते, 'यत्रौत्तरिकं धर्मविनयं नो - लमेत तदा तस्य अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहन्तुं नो कल्पते ॥ सू० २३॥
अथ भाप्यकारो गणान्तरगमने विवेकं प्रदर्शयति-'नाणदृ' ० इत्यादि । भष्यम्--नाणट्टदसणट्ठा, चारित्तट्ठा भवे य संभोगो ।
संकमणे चउभंगी, आयरियं गच्छमासज्ज ॥ २ ॥ छाया-ज्ञानार्थ दर्शनार्थ चारित्रार्थ. भवेच्च संभोगः ।
संक्रमणे चतुर्भगी, आचार्य गच्छमासाद्य ॥२॥ अवचूरी-'नाणह०' इति । ज्ञानार्थे दर्शनार्थ चारित्रार्थ च संभोगो भवेदिति त्रिविधः -संभोग , तदर्थ गणान्तरसंक्रमणं भवति, तत्र आचार्य गच्छं च आसाद्य-आश्रित्य चतर्भङ्गी भवतीति भाष्यगाथार्थः । विस्तरार्थश्चायम्-स्वगच्छे सूत्रार्थदानादौ विषीदति सति गच्छान्तरसंक्रमणे पूर्वोक्तरीत्यैव गमनविधिरत्रापि प्रतिपत्तव्यः, परन्तु चारित्रार्थ गच्छान्तरसंक्रमणे तु यस्य गच्छस्य प्रथममुपसंपन्नो भवति तस्मिन् -गच्छे चरणकरणक्रियायां विषीदति सति चतर्भङ्गी भवति, तथाहि-गच्छो विषीदति -नाचार्यः १, आचार्यों . विषीदति न गच्छः -२, गच्छोऽपि आचार्योऽपि च विषीदति ३, न गच्छो विषीदति न वा आचार्यः ४ इति । तत्र प्रकृते 'गच्छो विषीदति नाचार्य.' इत्येवंरूपः प्रथमो भगोऽवगन्तव्यः, तत्र स्वयं विषीदतो गच्छस्य
आचार्येण प्रेरणा कर्त्तव्या, तत्र गच्छस्य विषादकारणं यथा-प्रथमं तावत् गच्छश्रमणाः यथा‘कालं प्रत्युपेक्षणां न कुर्वन्ति न्यूनातिरिक्तादिदोषैविपर्यासेन वा प्रत्युपेक्षणां कुर्वन्ति, गुरुग्ला