________________
चूणि-भाष्याऽवचूरी उ० ४ सू० १५-१७
अशनादेः कालक्षेत्रमर्यादाविधिः ९५
छाया-निर्ग्रन्थ च खलु ग्लायन्तं माता वा भगिनी वा दुहिता वा परिष्वजेत् तं च निर्ग्रन्थः स्वादयेत्, मैथुनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० १५॥
चूर्णी-'निग्गंथं च णं' इति । निग्रन्थं साधु च खलु ग्लायन्तं रोगादिना शरीरक्षीणत्वेन ग्लानिमनुभवन्तं माता वा तस्य सांसारिकमाता निग्रन्थीभूता वा माता, भगिनी वा सांसारिकभगिनी निर्ग्रन्थीभृता वा भगिनी, दुहिता वा-सांसारिकपुत्री निग्रन्थीभूता पुत्री वा परि
वजेत् भूमौ पतन्तं धारयन्ती उपवेशयन्ती उत्थापयन्ती वा साधुशरीरे स्पृशेत् शरीरस्पर्श कुर्यात्, तं च स्पर्श निर्ग्रन्थः मैथुनप्रतिसेवनप्राप्त. मैथुनसेवनेच्छां प्रतिपन्न. सन् स्वादयेत् मैथुनसेवनभावनया अनुमोदेत 'सुखदोऽयं स्त्रीस्पर्श' इति कृत्वा मनसि हर्ष कुर्यात् तदा स निर्ग्रन्थः चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं गुरुकं प्रायश्चित्तम् आपद्यते प्राप्नोति गुरुकप्रायश्चित्तभागी भवतीति भावः ॥ सू० १५ ।।
पूर्वं ब्रह्मचर्यपरिणामरूपस्य भावस्यातिचारवारणाय श्रमण्याः पुरुपस्पर्शप्रतिषेधः, श्रमणस्य स्त्रीस्पर्शप्रतिषेधश्च प्रतिपादित', सम्प्रति-अशनादेः कालातिक्रमस्यातिचारं प्रतिपेधितुमाह-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा असणं वा पाणं वा खाइम वा साइमं वा पढमाए पोरिसीए पडिग्गाहित्ता पच्छिमं पोरिसिं उवाइणावित्तए, से य आहच्च उवाइणाविए सिया तं नो अप्पणा अँजिज्जा, नो अन्नेसिं अणुप्पएज्जा, एगंते बहुफासुए थंडिले पडिलेहित्ता पमज्जित्ता परिडवेयव्वे सिया, तं अप्पणा भुंजमाणे अन्नेसिं वा दलमाणे आवज्जड चाउम्मासियं परिहारहाणं उग्घाइयं ॥ सू०१६॥
छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अशनं वा पानं वा खाद्यं वा स्वाद्य वा प्रथमायां पौरुष्यां प्रतिगृह्य पश्चिमा पौरुपीम् उपानेतुम् , तच्च आहत्य उपानायितं स्यात् तद् नो आत्मना भुञ्जीत, न अन्येभ्यः अनुप्रदद्यात् एकान्ते वहुप्रासुके स्थण्डिले प्रत्युपेक्ष्य प्रमृज्य परिष्टापयितव्य स्यात्, तद् आत्मना भुजानः अन्यस्मै वा ददानः आपद्येत चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ सू० १६ ॥
चीनो कप्पड़, इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा श्रमणश्रमणीनां 'असणं वा' इत्यादि अशनादिकं चतुर्विधमाहार प्रथमायां पौरुप्या प्रतिगृह्य गृहीत्वा प्रथमपौरुष्यामानीतमशनादिकं पश्चिमां चतुर्थी पौरुषीम् ‘उवाइणावित्तए' उपानाययितुम् उल्लचयितुम् न कल्पते इति पूर्वेण सम्बन्धः प्रथमपौरुष्या गृहीतमशनादिकं पौरुपीत्रयमुल्लवय अन्तिमायां चतुर्थ्या पौरुष्यां न भोक्तव्यमित्याशयः । यद्यवं भवेत्तदा किं कर्त्तव्यमित्याह-'से य आहच्च'