________________
vvwww
व्यवहारसूत्रे भाष्यम्--'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा, मासे अतिरेकता आधिक्यं दिवसादिभिः क्वचित् पञ्चरात्रिन्दिवैः, क्वचित् दशरात्रिन्दिवैः, क्वचित् पक्षण, विंशतिदिनैः, पंचविंशतिदिवसात्मकभिन्नमासैर्वा भवति । पंचमासिय वा' पाञ्चमासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा, अत्राऽपि सातिरेकता पञ्चदिनादारम्य भिन्नमासात्मिकैव ज्ञातव्या । 'एएसिं' एतेषां चातुर्मासिक-सातिरेक चातुर्मासिक-पाञ्चमासिक-सातिरेकपाञ्चमासिकानाम् 'परिहारठाणाण' परिहारस्थानानां पापस्थानानां मध्ये 'अन्नयरं परिहारहाणं पडिसेवित्ता' अन्यतरत् एतेषु यत् किमप्येकं परिहारस्थानं प्रतिसेव्य यदि 'आलोएज्जा' आलोचयेत् पापापनोदनाय आचार्यसमीपे प्रकाशयेत् , तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा निष्कपटो भूत्वेत्यर्थः आलोचयेत् आलोचनां कुर्यात् तदा तस्य तथाविधस्य प्रतिसेवकस्य 'चाउम्मासियं वा' चातुर्मासिकं वा यत्प्रतिसेवितं तदेव 'साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा पञ्चदिवसाद्यधिकं चातुर्मासिकं प्रायश्चित्तं दद्यात् । 'पंचमासियं वा' पाञ्चमासिकं प्रायश्चित्तं यावन्मात्र प्रतिसेवितं तावन्मात्रमेव, 'साइरेगपंचमासियं वा' सातिरेकपाश्चमासिकं वा पञ्चदिवसाद्यधिकं पाश्चमासिकं प्रायश्चित्तं दद्यात् । 'पलिडंचिय आलोएमाणस्स' प्रतिकुञ्च्य कपटं कृत्वा आलोचयतः प्रतिसेवकस्य 'पंचमासियं वा' चातुर्मासिकपरिहारस्थानसेवने पाञ्चमासिकं प्रायश्चित्तं दातव्यम् , तत्र च चातुर्मासिकस्य प्रतिसेवनानिमित्तत्वात् , मासाधिक्यस्य च मायापराधजनितत्वात् । 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा, सातिरेकचातुर्मासिकपापस्थाने सेविते सति सातिरेकपाञ्चमासिकं प्रायश्चित्तं दातन्यमित्यर्थः । 'छम्मासिय वा' पाण्मासिकं वा पाञ्चमासिकसातिरेकपाश्चमासिकपापस्थानप्रतिसेवकस्य सकपटमालोचयतस्तस्य पाण्मासिकं प्रायश्चित्तं दातव्यमित्यर्थः । 'तेण परं' तेन ततः तस्मात् पाण्मासिकात् परिहारस्थानात् परं परस्मिन् सप्ताष्टादिके परिहारस्थाने प्रतिसेविते -प्रतिसेवकस्य 'पलिउंचिए वा अपलिउंचिए वा' प्रतिकुश्चिते सकपटे, अप्रतिकुञ्चिते निष्कपटे वा प्रतिसेवके 'ते चेव छम्मासा' ते एव षण्मासा एतदधिकप्रायश्चित्तस्य विधानाभावात् ।। सू० १५ ॥
सूत्रम्-जे भिक्खू बहुसोवि चाउम्मासियं वा, वहुसोवि साइरेगचाउम्मासियं वा वहुसोवि पंचमासियं वा वहुसोवि साइरेगपंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउंचिय आलोएमाणस्स पंचमासिंयं वा साइरेगपंचमासियं वा छम्मासियं वा तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ सू० १६॥