________________
व्यवहारस्त्रे पाण्मासिकं वा पाञ्चमासिकप्रायश्चित्तस्थाने मायापराधजनितं पाण्मासिकं प्रायश्चित्तमेकमासाधिक दद्यात् । मायापराधनिमित्तत्वेन हेतुना सर्वत्र मासाधिक्यं दद्यात् ।
यथा-यदि मासिकं पापस्थान सेवितं सकपट चालोचयितुमाचार्यसमीपे स्थितस्तस्मै द्वैमासिकं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं गुरुर्दद्यात् । यदि वा मासिकं परिहारस्थानं प्रतिसेन्य सकपटमालोचयितुमुपस्थितो भवति, तदा तस्मै त्रैमासिकं दद्यात् । यदि वा त्रैमासिकं परिहारस्थानमासेवितं सकपटं चालोचयितुमुपस्थितः तदा तस्मै चातुर्मासिकं दद्यात् । चातुर्मासिकं प्रतिसेवितं तस्मै पाञ्चमासिकं प्रायश्चित्तं दद्यात् । पाञ्चमासिकं पापस्थानं सेवितं मायापूर्वकमालोचयितुमुपस्थितस्तस्मै पाण्मासिकं प्रायश्चित्तं दद्यात् । एवं क्रमश एकैकमासस्याधिकं प्रतिकुञ्चनानिमित्तकं प्रायश्चित्तं दद्यात् , इति । 'तेण परं' ततः परम् , ततः पाञ्चमासिकात् परिहारस्थानादूर्व पाण्मासिकादिपापस्थानप्रतिसेवक आलोचनाकाले 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा मायापूर्वकं मायारहितं वा मालोचिते 'ते चेव छम्मासा' त एव प्रतिसेवनानिप्पन्नाः स्थिताः षण्मासाः, नाषिकं प्रतिकुञ्चनानिमित्तं प्रायश्चित्तम् , वर्द्धमानस्वामिशासने एतादृशस्यैव जीतकल्पस्य विधानात् , अन्यान्यतीर्थकरशासने न्यूनाधिकमपि प्रायश्चित्तं भवति, यथा ऋषभतीर्थकरस्य द्वादश मासाः, वर्द्धमानस्वामिनः षण्मासाः। शेषाणां द्वाविंशतितीर्थकराणां तीर्थे अष्टौ मासा इति । इदानीं तु वर्द्धमानस्वामिनः शासनम् , तस्य तूत्कृष्टं तपः पाण्मासिकमेव, ततोऽस्य तीर्थे सर्वोत्कृष्टमपि प्रायश्चित्तदानं षण्मासा एवेति पाण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुञ्चनयाऽऽलोचयतोऽपि नाधिकमारोपणम् , अतस्त एव षण्मासाः प्रोका इति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खू वहुसोवि मासियं वा बहुसोवि दोमासियं वा, बहुसोवि तेमासिय वा, वहुसोवि चाउम्मासियं वा, वहुसोवि पंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं वा, दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, पलिउंचिय आलोएमाणस्स दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, छम्मासियं वा, तेण परं पलिउंचिए वा, अपलिउंचिए वा, ते चेव छम्मासाः ॥ सू० १४ ॥
छाया-यो भिक्षुर्वहुशोऽपि मासिकं वा, बहुशोऽपि द्वैमासिकं वा, वहुशोऽपि त्रैमासिकं वा, बहुशोऽपि चातुर्मासिक वा, वहुशोऽपि पाञ्चमासिकं वा, एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत् , अप्रतिकुच्य आलोचयतः मासिकं वा, द्वैमासिकं वा, त्रैमासिकं वा, चातुर्मासिकं वा, पाञ्चमासिकं वा, पाण्मासिकं वा, तेन परं प्रतिकुञ्चिते वा, अप्रतिकुञ्चिते वा, त एव पण्मासाः ॥ सू० १४ ॥