SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० १-३ परिहारस्थानसेविनः प्रायश्चित्तविधिः ३ रस्य स्थानं परिहारस्थानम्' इति विग्रहवाक्यम् ४ । चालना - प्रश्न, यथाऽत्रैव यदि 'परिहारः पापं प्रायश्चित्तं वा तदेव स्थानम्' इति विग्रहः क्रियेत तदां परिहारस्य स्थानस्य चेत्युभयोः पदयोः समानार्थकत्वाद् एकस्यैवाऽन्यतरस्य प्रयोगः करणीयो न तु द्वयोः 'उक्तार्थानामप्रयोगः' इति न्यायादिति ५ । प्रत्यवस्थानम् — तादृशप्रश्नस्योत्तरदानं, तथाहि - स्थानशब्दो नाम शब्दशक्तिस्वाभाव्यादनेकविशेषाधारसामान्याभिधायी, तेन एतद् ध्वनयति- अनेकप्रकाराणि नाम मासिकप्रायश्चित्तानि, अनेकप्रकारेण च मासिकेन उपन्यस्तेन प्रयोजनं, कल्पाध्ययनोक्तसकलमासिकप्रायश्चित्तविषयकदानालोचनयोरभिधातुमुपक्रमात्, अतोऽत्र स्थानग्रहणम्, इत्यादिरूप - मुत्तरदानम् ६ । इति व्याख्यालक्षणम् । ♡ 15 अथ सूत्रं व्याख्यायते-'जे भिक्ख' इति । यः कश्चिद् भिक्षुः पूर्वोक्तस्वरूपः, यद्वा नैरुक्ती शब्दव्युत्पत्तिर्यथा 'क्षुध बुभुक्षायाम् ' क्षुध्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारमस्मादिति संपदादित्वात् किपि क्षुत्— अष्टप्रकारकं कर्म, तां भिनत्ति ज्ञानदर्शनचारित्रतपोभिर्विदारयतीति भिक्षः पृषोदरादित्याद् भिक्षुरूपनिष्पत्तिः, एतादृशो भिक्षुः साधु, धर्मस्य पुरुषप्रधानत्वाद् भिक्षुनिर्देश., ततो भिक्षुकी साध्वी वा 'मासिय' मासिकं - मासेन निर्वृत्तं 'परिहारहाणं' परिहारस्थानं परिह्रियते परित्यज्यते गुरुसमीपे गत्वा यः स परिहारः पापम्, तिष्ठन्ति जन्तवः कर्म - कलुषिता अस्मिन्निति स्थानम्, परिहारस्य स्थानं परिहारस्थानं पापस्थानम् 'पडिसेवित्ता प्रतिसेव्य आचर्य ‘आलोएज्जा' आलोचयेत् 'लोचृदर्शने' धातुः, 'आं मर्यादायाम्' तेन आमर्यादया 'जह बालो जंपतो' इत्यादिरूपया आलोचयेत्, यथा आत्मनस्तथा गुरोः प्रकटीकुर्यात् शिष्यः, अत्र ‘यः भिक्षुः' इत्यत्र यच्छन्दः 'यत्तदोर्नित्यसम्बन्धः' इति न्यायात् तच्छन्दापेक्षस्तेन यो भिक्षुः मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् तस्य' 'अपल्डिंचिय'" अप्रतिकुञ्च्य 'कुच कुञ्च कौटिल्याल्पाल्पीभावयोः' इति धातोः प्रतिकुञ्च्येति रूपम्, प्रतिकुञ्चय कौटिल्यमाचर्य, न प्रतिकुञ्च्य अप्रतिकुञ्च्य सर्वथा कर्पटमकृत्वा 'आलोएमाणस्स' आलोचयतः भिक्षो: 'मासिय' मासिकं मासेन निर्वर्त्तनयोग्यं लघुकं गुरुकं वा प्रतिसेवनानुसारतो गुरुः प्रायश्चित्तं दद्यात् । यदि यो भिक्षुः शुद्धभावेन नालोचयेत्' 'पलिउचिय' प्रतिकुञ्चय कौटिल्यमाचर्य 'आलोएमाणस्स' आलोचयतः 'दोमासिय' द्वैमासिकं मासद्वयनिर्वर्त्तनयोग्यं लघुकं गुरुक वा प्रतिसेवानुसारतः प्रायश्चित्तं गुरुर्दद्यात् मायाकरॅणतोऽधिकस्य गुरुमांसस्य सद्भावात्, 'प्रति' कुञ्च्य आलोचयतो यत् प्राप्तं तत्तु दीयत एव, अन्यश्च मायाप्रत्ययो गुरुको मासं इति द्वैमा' सिकं प्रायश्चित्तं तस्याऽऽपंद्यते इति ॥ सू० १ ॥ T सूत्रम् - जे भिक्खू दोमासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स दोमासिय पछिउंचिय आलोएमाणस्स तिमांसियं ॥ सू० २ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy