________________
श्री वीतरागाय नमः
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचित-भाष्यसमलङ्कृतम्
श्री-व्यवहारसूत्रम्
मङ्गलाचरणम् वर्द्धमान जिनं नत्वा, गणीशं गौतमं तथा।
व्यवहारागमे भाष्यं, घासीलालेन तन्यते ॥१॥ इतः पूर्व वृहत्कल्पसूत्रं व्याख्यातम् । सम्प्रति व्यवहारसूत्रं वित्रियते-अस्य व्यवहारसूत्रस्य बृहत्कल्पसूत्रेण सहाऽयमभिसम्बन्धः-बृहत्कल्पे सामान्यत एव प्रायश्चित्तमुक्तम् , न तु तद्दानविधिरालोचनविधिर्वा, व्यवहारे तु प्रायश्चित्तदानमालोचनाविधिश्चाऽभिधास्यते । तदनेन सम्बन्धेनाऽऽयातस्यास्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते
अत्र व्यवहारग्रहणेन व्यवहारी, व्यवहरणीयं चेति द्वयमपि सूचितम् । व्यवहारि-व्यवहरणीययोरभावे व्यवहारस्यैवाऽसंभवात् , ततो यथा व्यवहारस्य प्ररूपणा कर्त्तव्या, तथा व्यवहारि-व्यवहरणीययोरपीति, तत् त्रयाणामपि प्ररूपणां कुर्वन्नाह भाष्यकारः-'ववहारो' इत्यादि । भाष्यम्-ववहारो ववहारी, ववहरणिज्जा य जे जहा पुरिसा ।
एएसिं तु पयाणं, पत्तेयं खलु परूवणं वोच्छं ॥१॥ छाया-व्यवहारो व्यवहारी, व्यवहरणीयाश्च ये यथा पुरुषाः ।
___एतेपां तु पदानां, प्रत्येकं खलु प्ररूपणां वक्ष्ये ॥१॥
अवचरी-'यवहारो' इति । व्यवहार , व्यवहियते दीयते यद्यस्य प्रायश्चित्तमापतति तद्दानविषयीक्रियतेऽनेन स व्यवहार. । 'ववहारी' व्यवहारी व्यवहरतीत्येवशीलः व्यवहारक्रियाप्रवर्तकः प्रायश्चित्तदायक इति यावत् 'य' च 'जे पुरिसा' ये पुरुषाः, अत्र पुरुषग्रहणं पुरुषोत्तमो धर्म इति ज्ञापनार्थम् । पुरुषपदेन स्त्रियोऽपि पगमृष्टा भवेयुः, तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् । 'जहा' यथा येन वक्ष्यमाणप्रकारेण 'ववहरणिज्जा' व्यवहरणीयाः व्यवहारविषयीकर्तव्याः- 'एएसि पयाणं' एतेषां पदानाम् व्यवहार-व्यवहारिव्यवहरणीयानां त्रयाणाम् 'तु' तु-अपि 'पत्तेय' प्रत्येकम्, एकैकस्य पदस्य 'परूवणं' प्ररूपणां व्याख्यां संक्षेपतो विस्तरतश्च 'खल' खल-निश्चयेन 'वोच्छं' वक्ष्ये कथयिष्यामि ॥१॥