________________
२७०
व्यवहारसूत्र सेहवेयावच्चे' शैक्षवैयावृत्त्यम् , तत्र शैक्षः शिक्यते शास्त्रदर्शितविधिजयते व्रतातिचारादियस्य सः शैक्षः शिक्षयितुं योग्यः शैक्षः, यद्वा ग्रहणासेवनशिक्षायोग्यः शैक्षस्तस्य वैयावृत्त्यम् समये समये तस्य वैयावृत्त्यं ग्रहणासेवनीशिक्षाप्रदानरूपं पञ्चमं वैयावृत्त्यम् ५ ।
_ 'गिलाणवेयावच्चे' ग्लानवैयावृत्त्यम् तत्र-ग्लानो रोगतपोभेदेन द्विविधः, रोगेण ग्लानस्तपसा वा ग्लानस्तस्य वैयावृत्त्यम् औषधान्नपानादिभिरभिभावनमिति षष्ठं वैयावृत्त्यम् ६ ।
'साहम्मियवेयावच्चे' साधर्मिकवैयावृत्त्यम् , तत्र समान एको धर्मः श्रुतचारित्रलक्षणो येषां ते साधर्मिकाः समानधर्माचरणशीलाः साधवस्तेषां वैयावृत्यं सप्तमं वैयावृत्त्यम् ७ ।
'कुलवेयावच्चे' कुलवैयावृत्त्यम् तत्र कुलम् एकगुरुपरिवाररूपः साधुसमुदायस्तस्य वैयावृत्त्यम् अष्टमं वैयावृत्त्यम् ८ । - गणवेयावच्चे' गणवैयावृत्यम् , गणस्य एकगुरुपरम्परागत साधुसमुदायस्य वैयावृ. त्यं नवमं वैयावृत्त्यम् ९ ।
_ 'संघवेयावच्चे' सवैयावृत्त्यम् , तत्र संघस्य साधुसाध्वीरूपस्य भक्तपानवस्त्रपात्रादिना, चतुर्विधसंघस्य वा परतीर्थिकविवादनिवारणादिना सदुपदेशादिना च वैयावृत्त्यम् दशमं वैयावृत्त्यम् १० । एतद्दशविधं वैयावृत्त्यं भगवता प्ररूपितमिति ॥ सू० ३८ ॥
पूर्व दशविधं वैयावृत्त्यं नामनिर्देशपूर्वकं प्रदर्शितम् , साम्प्रतं सर्वेषां मुख्यत्वेन प्रथममाचार्यवैयावृत्त्यस्य फलं प्रदर्शयति-'आयरियवेयावच्चं' इत्यादि ।
सूत्रम्-आयरियवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ॥ सू० ३९॥
छाया-आचार्यवैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥ सू० ३९ ॥
'आयरियवेयावच्चे' आचार्यवैयावृत्त्यम् , तत्राचार्यस्य गणनायकस्य वैयावृत्त्यं, तच्च त्रयोदशभिः प्रकारैः क्रियते, अत्र गाथाद्वयमाह-भत्तं पाणं च' इत्यादि ।
"भत्तं १ पाणं २ च सेज्जा ३, आसणदाणं ४ तहेव पडिलेहा ५। पायपमज्जण ६ ओसह ७, अद्धागमणे ८ य रायदुट्टे य ९ ॥२॥ तेणा १० पत्तग्गहणं ११, गेलन्ने १२ पत्तढोयणं १३ चेव । एवं आयरियाण, वेयायचं करेइ मोक्खट्टी" ॥२॥