SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ॥अथ दशमोद्देशकः॥ तदेवं नवममुद्देशं व्याख्याय संप्रति-दशमोद्देशकः प्रारभ्यते, अस्य दशमोदेशकप्रथम. सूत्रस्य नवमोद्देशकचरमसूत्रेण सह कः सम्बन्धः ? इत्याह भाष्यकारः-'पुव्वं ओग्गहियाभिह' इत्यादि । गाहा–पुव्वं ओग्गहियाभिह, अभिग्गहो देसिओ चरमसुत्ते । पडिमा अभिग्गहो इह, वुच्चइ एसेव संबंधो ॥ भा० गा० ॥१॥ छाया-पूर्वम् अवग्रहिताभिधः अभिग्रहो देशितश्चरमसूत्रे । प्रतिमाभिग्रह इह, प्रोच्यते एप एव सम्बन्धः ॥ भा० गा० १॥ व्याख्या-पूर्वमिति पूर्व नवमोद्देशकस्य चरमसूत्रे अवग्रहिताभिधः अवग्रहितनामकः अभिग्रहो देशितः कथितः । इह-दशमोद्देशकस्य प्रथमसूत्रे प्रतिमाऽपि अभिग्रह एवेति कृत्वा प्रतिमाभिग्रहः यवमध्य-वज्रमध्य-चन्द्रप्रतिमाद्वयरूपोऽभिग्रहः प्रोच्यते तत एष एव संवन्धो नवमदशमोद्देशकयोरिति ॥ भा० गा० १॥ अनेन सबन्धेनाऽऽयातस्यास्य दशमोद्देशकस्येदमादिमं सूत्रम्-'दो पडिमाओ' इत्यादि । सूत्रम्-दो पडिमाओ पन्नत्ताओ तं जहा-जवमज्झा य चन्दपडिमा वइरमज्झा य चंदपडिमा । जवमज्झं णं चंदपडिमं पडिवन्नस्स अणगारस्स निच्चं मासं वोसहकाए चियत्तदेहे जे केई परीसहोवसग्गा समुप्पज्जंति दिव्या वा मणुस्सगा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा, तत्थ अणुलोमा ताव वंदेज्जा वा नमंसिज्जा वा सक्कारेज्जा वा सम्माणेज्जा वा कल्लाणं मंगलं देवयं चेइयं पज्जुपासेज्जा, पडिलोमा ताव अन्नयरेणं दंडेण वा अहिणा वा जोत्तेण वा वेत्तेण वा कसेण वा काए आउद्देज्जा ते सव्वे उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियासेइ ॥ सू० १ ॥ छाया-वे प्रतिमे प्राप्ते तद्यथा-यवमध्यचन्द्रप्रतिमा च वज्रमध्यचन्द्रप्रतिमा च । यवमध्यां खलु चन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य नित्यं मासं व्युत्सृष्टकाये त्यक्तदेहे ये केचित्परीपहोपसर्गाः समुत्पद्यन्ते दिव्या वा मानुषका वा तैर्यग्योनिका वा-अनुलोमा वा प्रतिलोमा वा, तत्राऽनुलोमा तावद् वन्देत वा नमस्येद् वा सत्कारयेद्वा संमानयेद् वा कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासेत, प्रतिलोमा तावत् अन्यतरेण दण्डेन वा अस्या वा जोत्रेण वा वेत्रेण वा कशया वा कायम् आकुटयेत् तान् सर्वान् उत्पन्नान सम्यक् सहते क्षमते तितिक्षते अधिसहते ॥ सू० १॥ भाष्यम्-'दो पडिमाओ पन्नत्ताओ' वे-द्विप्रकारिके प्रतिमे प्रज्ञप्ते कथिते, तत्र प्रतिमाया दैविध्य दर्शयितुमाह-'तं जहा' इत्यादि 'तं जहा' तद्यथा-'जवमज्झा य चंदपडिमा वडरमज्झा य चंदपडिमा' यवमध्या च चन्द्रप्रतिमा वज्रमध्या च चन्द्रप्रतिमा, तत्र-यवमध्य
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy