SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सुं० ४५-४७ उपहतादिभिक्षाभिग्रहधारिस्वरूपम् २२९ भाष्यम्- य उपहृताभिग्रही स उपहृतं गृह्णाति तत् 'तिविह' त्रिविधं - त्रिप्रकारकम् 'उवह डे पन्नत्ते' उपहृतं प्रज्ञप्तम् कथितम्, उप समीपे - अन्यस्य भोक्तुः समीपे परिवेषणार्थं हृतम् गृहीतम् उपहृतं कथ्यते, तत् त्रिविधं प्रज्ञप्तम् तंजहा' - तद्यथा 'सुद्धोवहडे' शुद्धोपहृतम् १, 'फलिहोवइडे' फलिकोपहृतम् २, 'संसद्वो वह डे' संसृष्टोपहृतम् ३, तत्र शुद्धोपहृतं यथा - यदि व्यञ्जनरहितं केवलं तण्डुलादिकं गृहीत्वा दास्यति तदा ग्रहीष्यामीति शुद्धोपहृतम् १ | फलिकोपहतं यथा फलिकं काष्ठपात्रम्, यदि काष्ठपात्रे गृहीत्वा दास्यति तदा ग्रहीष्यामि इति फलिकोपहृतम् २ | संसृष्टोपहृतं यथा-यदि 'शाकादिखरडितपात्रे गृहीत्वा दास्यति तदा ग्रहीष्यामीति ससृष्टोप - तम् ३ । एतत्त्रिविधमुपहृतमुपहताभिग्रहधारी भिक्षारूपेण गृह्णातीति ॥ अथ शुद्धादिपदानामर्थमाहइ - अत्र खलु यत् अलेपकृतं काञ्जिकेन पानीयेन वा न सन्मि श्रीकृतं तत्-शुद्धम्, अथवा व्यञ्जनादिरहितं शुद्धौदनं शुद्धम् । तच्च नियमतोऽलेपकृतम् १ | फलिकं नाम यत् काष्ठपात्रे गृहीतम्, अथवा फलितमिति व्यञ्जनैर्नानाप्रकारकैर्भोज्यवस्तुभिर्विरचितमिति २ । संसृष्टं नाम-भोक्तुकामेन गृहीतम्, यत् स्थाले परिवेषितम् ततो ग्रहणाय हस्ते, क्षिप्तो न तु मुखे प्रक्षिपति, अत्रान्तरे भिक्षार्थं कश्चित् साधुः समागतः यत् शाकादिना लेपकृतमलेपकृतं वा तत् संसृष्टमिति कथ्यते ३ । उपहृतं तु यद् भोक्तुकामेन गृहीतं तदुपहतमित्युच्यते ॥ सू० ४५ ॥ अथावग्रहिताभिग्रहस्वरूपमाह - 'तिविहे ' इत्यादि । सूत्रम् - तिविहे ओग्गहिए पण्णत्ते, तं जहा - जं च . ओगिण्हइ जं च साइरह जं च आसगंसि पक्खिव एगे एवमाहंसु || सू० ४६ ।। छाया - त्रिविधमवग्रहितं प्रज्ञप्तम्, तद्यथा - यदवगृह्णाति यच्च संहरति यच्च आस्यके प्रक्षिपति, एके एवमाहुः ॥ सू० ४६ ॥ भाष्यम् – 'तिविहे' त्रिविधम् - त्रिप्रकार कम्, 'ओग्गहिए पण्णत्ते' अवग्रहितम्, अनग्रहितं नाम अभिग्रहविशेषः प्रज्ञप्तं- कथितम् 'तंजहा' तद्यथा - 'जं च ओगिण्हइ' यच्चाऽवगृह्णाति-भोजनार्थं गृह्णाति, 'जं च साहरई' यच्च संहरति, यच्च भोजन पात्राद् निष्क्रामयति, 'जं च आसगंसि पक्खिवइ' यच्चाऽऽस्यके मुखे प्रक्षिपति, एवमवग्रहितं त्रिविधं भवति । 'एगे' एके केचन आचार्यां एवं पूर्वोक्तप्रकारेण त्रिविधमवग्रहितम् आहुः - कथयन्तीति ॥ सू० ४६ ॥ अत्रान्याचार्यमतमाह – 'एगे पुण' इत्यादि । सूत्रम् - एगे पुण एवमाहंसु दुबिहे ओग्गहिए पन्नत्ते, तंजहा - जं च ओगिण्हइ जं च आसगंसि पक्खिवइ ॥ ४७ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy