SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० सू० ४० देशदशकिकाभिक्षुप्रतिमानिरूपणम् २१९ अथ दशदशकिकां भिक्षुप्रतिमामाह - 'दसदसमिया णं' इत्यादि । सूत्रम् - दसदसमिया णं भिक्खुपडिमा एगेणं राइदियसरणं अद्धछट्ठेहि य भिक्खा एहिं अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मकारणं फासिया पालिया सोहिया तीरिया किहिया आणाए अणुपालिया भवइ ॥ सू० ४० ॥ छाया - दशदशकिका खलु भिक्षुप्रतिमा एकेन रात्रिन्दिवशतेन अर्द्धषष्ठेश्च भिक्षाशतैः ः यथासूत्रम् यथाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्त्तित्ता आशया अनुपालिता भवति ॥ सू० ४० ॥ भाष्यम् – 'दसदसमिया णं भिक्खुपडिमा दशदशकिका खलु भिक्षुप्रतिमा, तत्र दशदशकिका - दश दशकानि यस्यां सा दशदशकिका, एतादृशी भिक्षुप्रतिमा अभिग्रहविशेषः । सा च भिक्षुप्रतिमा 'एगेणं राईदियस एणं' एकेन रात्रिन्दिवशतेन, दश दशभिर्गुणिताः भवति शतमेकं रात्रिन्दिवानामिति रात्रिन्दिवानामेकशतेन, तथा शतसंख्यक दिवसेषु 'अद्धछट्ठेहि य भिक्खा - सएहिं' अर्द्धषष्ठैश्च भिक्षाशतै., अर्द्ध पष्ठं शतं भिक्षाणां यत्र तानि अर्द्धषष्ठानि भिक्षाशतानिः, वैः पञ्चाशदधिकैः पञ्चभिः शतैरित्यर्थः (५५०), शतसंख्यकै रात्रिन्दिवैः, तत्संबन्धिभिः पञ्चाशदधिकपञ्चशत(५५०)संख्यकै' भिक्षाप्रमाणैरेषा दशदशकिका भिक्षुप्रतिमा यथासूत्रं यथाकल्पं यथामार्गं यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्त्तिता आज्ञया अनुपालिता भवति । अथ भिक्षुप्रतिमानां कालप्रमाणं भिक्षाप्रमाणं तत्प्रमाणानयनविधिश्च प्रदर्श्यते, तथाहितत्र सप्तसप्तकिकायाः कालः एकोनपञ्चाशद् रात्रिन्दिवानि ४९ । अष्टाष्टकिकायाः प्रतिमायाः कालः चतुष्षष्टी रात्रिन्दिवानि ६४ । नवनवक्किकाया एकाशीती रात्रिन्दिवानि ८१ । दशदशकिकायाः परिपूर्णं शतं रात्रिन्दिवानाम् १०० । सर्वप्रतिमानामधिकृतसूत्रचतुष्टयोपेतानां पृथक् पृथगेतावानेव भवति काल इति कालप्रमाणम् । सम्प्रति भिक्षापरिमाणमाह - सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवत्यधिकं शतम् (१९६) भिक्षाणां भवति । अष्टाष्टकिकायाम् - अष्टाशीत्यधिके द्वे शते (२८८) भिक्षाणां भवतः । नवनवक्रिकायां पञ्चोत्तराणि चत्वारि शतानि (४०५) । दशदशकिकायां प्रतिमायामर्द्धषष्ठानि पञ्च शतानीति पञ्चाशदधिकानि पञ्च शतानि ( ५५० ) भिक्षाणां भवन्ति । भिक्षाप्रमाणानयनविधि' प्रदर्श्यते तथाहि - सप्तसप्तकवर्गदिवसाः एकोनपञ्चाशत् (४९) ते मूलदिवसैः सप्तभिर्युताः क्रियन्ते, ततो जाताः षट्पञ्चाशत् (५६) । तेऽर्धीक्रियन्ते, ततो जाता अष्टाविंशतिः (२८) । सा मूलेन सप्तकेन गुण्यते, तदा - आगतं षण्णवत्यधिकं शतम् (१९६) । सप्त सप्तकिकाप्रतिमाभिक्षापरिमाणम् ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy